पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म०टी०-तत्रान्तिमस्य सूचीकटाहन्यायेन निराकरणायोत्तरम् -

श्रीभगवानुवाच-
 काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ॥
 सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२॥

 काम्यानां फलकामनया चोदितानामन्तःकरणशुद्धावनुपयुक्तानां कर्मणामिष्टिपशुसोमादीनां न्यासं त्यागं संन्यासं विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः केचित् । “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ” इति वाक्येन वेदानुवचनशब्दोपलक्षितस्य ब्रह्मचारिधर्मस्य यज्ञदानशब्दाभ्यामुपलक्षितस्य गृहस्थधर्मस्य तपोनाशकशब्दाभ्यामुपलक्षितस्य वानप्रस्थधर्मस्य नित्यस्य नि[१]त्येहितेन पापक्षयेण द्वारेणाऽऽत्मज्ञानार्थत्वं बोध्यते । न च विनियोगवैयर्थ्यं “ ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः " इत्यनेनैव लब्धत्वादिति वाच्यं, विनियोगाभावे हि सत्यपि नित्यकर्मानुष्ठाने ज्ञानं स्याद्वा न वा स्यात् , सति तु विनियोगे ज्ञानमवश्यं भवेदेवेति नियमार्थत्वात् । तस्मान्नित्यकर्मणामेव वेदने विविदिषायां वा विनियोगात्सत्त्वशुद्धिविवि. दिषोत्पत्तिपूर्वकवेदनार्थिना नित्यान्येव कर्माणि भगवदर्पणबुद्ध्याऽनुष्ठेयानि । काम्यानि तु सर्वाणि सफलानि परित्याज्यानीत्येकं मतम् । अपरं मतं सर्वकर्मफलत्यागं प्राहुस्त्याग विचक्षणाः, सर्वेषां काम्यानां नित्यानां च प्रतिपदोक्तफलत्यागं सत्त्वशुद्धयर्थितया विविदिषासंयोगेनानुष्ठानं विचक्षणा विचारकुशलास्त्यागं प्राहुः। “ खादिरो यूपो भवति" "खादिरं वीर्यकामस्य यूपं करोति" इत्यत्र यथैकस्य खादिरत्वस्य क्रतुप्रकरणपाठात्फलसंयोगाच्च क्रत्वर्थत्वं पुरुषार्थत्वं च प्रमाणभेदात्तथाऽग्निहोत्रेष्टिपशुसोमानां सर्वेषामपि शतपथपठितानां स्वोत्पत्तिविधिसिद्धानां तत्तत्फलसंयोगः प्रत्येकवाक्येन विविदिषासंयोगश्च यज्ञादिवाक्येन क्रियत इत्युपपन्नमेकस्य तूभयत्वे संयोगपृथक्त्वमिति न्यायात् । तदुक्तं संक्षेपशारीरके

" यज्ञेनेत्यादिवाक्यं शतपथविहितं कर्मवृन्दं गृहीत्वा
स्वोत्पत्त्याम्नानसिद्धं पुरुषविविदिषामात्रसाध्ये युनक्ति ॥” इति ।

 तस्मात्काम्यान्यपि फलाभिसंधिमकृत्वाऽन्तःकरणशुद्धये कर्तव्यानि । न ह्यग्निहोत्रादिकर्मणां स्वतः काम्यत्वनित्यत्वरूपो विशेषोऽस्ति । पुरुषाभिप्रायभेदकृतस्तु विशेषः फलाभिसंघित्यागे कुतस्त्यः । नित्यकर्मणां च प्रातिस्विकफलसद्भावम् “ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् " इत्यत्र वक्ष्यति । नित्यानामेव विविदिषासंयोगेन


  1. क. ख. छ. ज. झ. 'त्येन हि ।