पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १८क्ष्लो०१]
४५३
श्रीमद्भगवद्गीता।


 अविदुषामनुपजातविविदिषाणां च कर्माधिकृतानामेव किंचित्कर्मपरिग्रहेण किंचि- कर्मपरित्यागो यः स त्यागांशगुणयोगात्संन्यासशब्देनोच्यते । एतादृशस्यान्तःकरण. शुद्यर्थमविद्वत्कर्माधिकारिकर्तृकस्य संन्यासस्य केनचिद्रूपेण कर्मत्यागस्य तत्त्वं स्वरूपं पृथक्सात्त्विकराजसतामसभेदेन वेदितुमिच्छामि । त्यागस्य च तत्त्वं वेदितुमिच्छामि । किं संन्यासत्यागशब्दौ घटपटशब्दाविव भिन्नजातीयार्थोौ किं वा ब्राह्मणपरिव्राजकशब्दाविवैकजातीयार्थौ । यद्याद्यस्तर्हि त्यागस्य तत्त्वं संन्यासात्पृथग्वेदितुमिच्छामि । यदि द्वितीयस्तर्ह्यवान्तरोपाधिभेदमात् वक्तव्यम् । एकव्याख्यानेनैवोभयं व्याख्यातं भविष्यति । महाबाहो केशिनि[१]षूदनेति संबोधनाभ्यां बाह्योपद्रवनिवारणस्वरूपयोग्यताफलोपधाने प्रदर्शिते । दृषीकेशेत्यन्तरुपद्ववनिवारणसामर्थ्यमिति भेदः । अत्यनुरागात्संबोधनत्रयम् । अत्रार्जुनस्य द्वौ प्रश्नौ । कर्माधिकारिकर्तृकत्वेन पूर्वोक्तयज्ञादिसाधर्म्येण संन्यासशब्दप्रतिपाद्यत्वेन च गुणातीतसंन्यासद्वयसाधर्म्येण त्रैगुण्यसंभवासंभवाभ्यां संशयः प्रथमस्य प्रश्नस्य बीजम् । द्वितीयस्य तु संन्यासत्यागशब्दयोः पर्यायत्वात्कर्मफलत्यागरूपेण च वैलक्षण्योक्तेः संश[२]यो बीजम् ॥ १॥

श्री०टी०-न्यासत्यागविभागेन सर्वगीतार्थसंग्रहम् ।
  स्पष्टमष्टादशे प्राह परमार्थविनिर्ण[३]ये ॥

 अत्र च

सर्वकर्माणि मनसा संन्यस्याऽऽस्ते सुखं वशी।
संन्यासयोगयुक्तात्मा "

 इत्यादिषु कर्मसंन्यास उपदिष्टः । तथा-

" त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् "

 इत्यादिषु च फलमात्रत्यागेन कर्मानुष्ठानमुपदिष्टम् । न च परस्परं विरुद्ध सर्वशः परमकारुणिको भगवानुपदिशेत् । अतः कर्मसंन्यासस्य तदनुष्ठानस्य चाविरोधप्रकारं बुभुत्सुरर्जुन उवाच-संन्यासस्येति । भो हृषीकेश सर्वेन्द्रियनियामक हे केशिनिषूदन केशिनानो हि महतो हयाकृतेर्दैत्यस्य युद्धे मुखं व्यादाय मक्षयितुमागच्छतोऽत्यन्तं व्यात्ते मुखे वामबाहुं प्रवेश्य तत्क्षणमेव विवृद्धेन तेनैव बाहुना कर्कटिकाफलवत्तं विदार्य निषूदितवान् । अत एव हे महाबाहो, इति संबोधनम् । संन्यासस्य त्यागस्य च तत्त्वं पृथग्विवेकेन वेदितुमिच्छामि ॥ १॥


  1. ख. घ. छ. ज. निसूद ।
  2. क. ग. घ. इ. च. छ. झ. अ. "शयः ॥ १ ॥
  3. झ. 'र्णयम् । अ ॥