पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१७क्ष्लो०२४-२५]
४४९
श्रीमद्भगवद्गीता।


व्यपदेशः स्मृतः शिष्टैः । तत्र तावदोमिति[१] ब्रह्मेत्यादिश्रुतिप्रसिद्धरोमिति ब्रह्मणो नाम । जगत्कारणत्वेनातिप्रसिद्धत्वादविदुषां परोक्षत्वाच्च तच्छब्दोऽपि ब्रह्मणो नाम । परमार्थसत्त्वसाधुत्वप्रशस्तत्वादिभिः सच्छब्दो ब्रह्मणो [२]नाम । अयं त्रिविधोऽपि नामनिर्देशो विगुणमपि सगुणीकर्तुं समर्थ इत्याशयेन स्तौति । तेन त्रिविधेन ब्रह्मणो निर्देशेन ब्राह्मणाश्च वेदाश्च यज्ञाश्च पूर्वं सृष्ट्यादौ विहिता विधात्रा निर्मिताः सगुणीकृता वा । यद्वा यस्यायं त्रिविधो निर्देशस्तेन परमात्मना ब्राह्मणादयः पवित्रतमाः सृष्टाः । तस्मात्तस्यायं त्रिविधी निर्देशोऽतिप्रशस्त इत्यर्थः ॥ २३ ॥

 म०टी०-इदानीमकारोकारमकारव्याख्यानेन तत्समुदायोंकारव्याख्यानवदोंकारतच्छब्दसच्छब्दव्याख्यानेन तत्समुदायरूपं ब्रह्मणो निर्देशं स्तुत्यतिशयाय व्याख्यातुमारभते चतुर्भिः । तत्र प्रथमोंकारं व्याचष्टे-

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ॥
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४॥

 यस्मात् "ओमिति ब्रह्म" इत्यादिषु श्रुतिष्वोमिति ब्रह्मणो नाम प्रसिद्धं तस्मादोमित्युदात्हृत्योंकारोच्चारणानन्तरं विधानोक्ता विधिशास्त्रबोधिता ब्रह्मवादिनां वेदवादिनां यज्ञदानतपःक्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्यराहित्येन वर्तन्ते । यस्यैकावयवोच्चारणादप्यवैगुण्यं किं पुनस्तस्य सर्वस्योच्चारणादिति स्तुत्यतिशयः ॥ २४ ॥

 श्री०टी०-इदानीं प्रत्येकमोंकारादीनां प्राशस्त्यं दर्शयिष्यन्नोंकारस्य ताव[३]दाह-तस्मादिति । यस्मादेवं ब्रह्मणो निर्देशः प्रशस्तस्तस्मादोमित्युदाहृत्योच्चार्य कृता वेदवादिनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदाऽङ्गवैकल्येऽपि प्रकर्षेण वर्तन्ते सगुणा भवन्तीत्यर्थः ॥ २४ ॥

 म० टी०-द्वितीयं तच्छब्दं व्याचष्टे-

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः ॥
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाक्षिभिः॥२५॥

 "तत्त्वमसि" इत्यादिश्रुतिप्रसिद्धं तदिति ब्रह्मणो नामोदादृत्य फलमनभिसंधायान्तः- करणशुद्ध्यर्थं यज्ञतपःक्रिया दानक्रियाश्च विविधा मोक्षकाङ्क्षिमिः क्रियन्ते तस्मादतिप्रशस्तमेतत् ॥ २५ ॥

 श्री० टी०-द्वितीयं नाम प्रस्तौति--तदिति । तदित्युदाहृत्येति पूर्वस्यानुषङ्गः।


  1. क. ति त्रिवहीं ।
  2. क. म । सदेव सौम्येदमा आसीदित्यादिश्रुतेः अ ।
  3. क. तदेवाऽऽह ।