पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
[अ० १७ क्ष्लो०२३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


यस्मिन्कस्मिंश्चित् , अशौचकाले वा, अपात्रेभ्यश्च विद्यातपोरहितेम्यो नटविटादिभ्यो यद्दानं दीयते देशकालपात्रसंपत्तावपि असत्कृतं प्रियभाषणपादप्रक्षालनपूजादिसत्कारशून्यमवज्ञातं पात्रपरिभवयुक्तं च तदानं तामसमुदाहृतम् ॥ २२ ॥

 श्री०टी०-तामसं दानमाह-अदेशेति । अदेशेऽशुचिस्थाने, अकालेऽशौचसमयेऽपात्रेभ्यो विटनटनर्तकादिभ्यो यद्दानं दीयते देशकालपात्रसंपत्तावपि असत्कृतं पादप्रक्षालनादिसत्कारशून्यम् , अवज्ञातं तिरस्कारयुक्तम् । एवंभूतं दानं तामसमुदाहृतम् ॥ २२॥

 म०टी०-तदेवमाहारयज्ञतपोदानानां त्रैविध्यकथनेन सात्त्विकानि तान्यादेयानि राजसतामसानि तु परिहर्तव्यानीत्युक्तम् । तत्राऽऽहारस्य दृष्टार्थत्वेन नास्त्यङ्गवैगुण्येन फलाभावशङ्का । यज्ञतपोदानानां त्वदृष्टार्थानामङ्गवैगुण्यादपूर्वानुत्पत्तौ फलाभावः स्यादिति सात्त्विकानामपि तेषामानर्थक्यं प्राप्तं प्रमादबहुलत्वादनुष्ठातॄणामतस्तद्वैगुण्यपरिहारार्थोतत्सदितिभगवन्नामोच्चारणरूपं सामान्यप्रायश्चित्तं परमकारुणिकतयोपदिशति भगवान्-

ॐतत्सदिति निर्देशो ब्रह्मणत्रिविधः स्मृतः ॥
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३॥

 ओंतत्सदित्येवरूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकशब्दो नामेति यावत् । त्रिविधस्तिस्त्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्तविद्भिः । एकवचनान्यवयवमेकं नाम प्रणववत् । यस्मात्पूर्वमहर्षिभिरयं ब्रह्मणो निर्देशः स्मृतस्तस्मादिदानींतनैरपि स्मर्तव्य इति विधिरत्र कल्प्यते । वषट्कर्तुः प्रथमभक्ष इत्यादिष्विव वचनानि त्वपूर्वत्वादिति न्यायात् । यज्ञदानतपःक्रियासंयोगाच्चास्य तदवैगुण्यमेव फलं नष्टाश्वदग्धरथवत्परस्पराकाङ्क्षया कल्प्यते ।

"प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः "

 इति स्मृतेस्तथैव शिष्टाचाराच्च । ब्रह्मणो निर्देशः स्तूयते कर्मवैगुण्यपरिहारसामर्थ्यकथनाय-ब्राह्मणा इति त्रैवर्णिकोपलक्षणम् । ब्राह्मणाद्याः कर्तारो वेदाः करणानि यज्ञाः कर्माणि तेन ब्रह्मणो निर्देशेन करणभूतेन पुरा विहिताः प्रजापतिना । तस्माद्यज्ञादिसृष्टिहेतुत्वेन तद्वैगुण्यपरिहारसमर्थो महाप्रभावोऽयं निर्देश इत्यर्थः ॥ २३ ॥

 श्री०टी०-ननु चैवं विचार्यमाणे सर्वमपि यज्ञतपोदानादि राजसतामसप्रायमेवेति व्यर्थो यज्ञादिप्रयाप्त इत्याशङ्कय तथाविधस्यापि सात्त्विकत्वापादनप्रकारं दर्शयितुमाह-ओमिति । ॐ तत्सदित्येवं त्रिविधो ब्रह्मणः परमात्मनो निर्देशो नाम-