पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१७क्ष्लो ०२०-१२]
४४७
श्रीमद्भगवद्गीता।

श्री०टी०-तामसं तप आह-मूढेति । मूढग्राहेणाविवेककृतेन दुराग्रहेणाऽऽत्मनः पीडया यत्तपः क्रियते परस्योत्सादनार्थं वाऽन्यस्य विनाशार्थमभिचाररूपं तत्तामसमुदाहृतं कथितम् ॥ १९ ॥

म. टी-इदानीं क्रमप्राप्तस्य दानस्य त्रैविध्यं दर्शयति त्रिभिः-

दातव्यमिति यदानं दीयतेऽनुपकारिणे ॥
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥२०॥

दातव्यमेव शास्त्रचोदनावशादित्येवं निश्चयेन न तु फलाभिसंधिना यद्दानं तुलापुरुशादि दीयतेऽनुपकारिणे प्रत्युपकाराजनकाय देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ । पात्रे चेति चतुर्थ्यर्थे सप्तमी । कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय । पात्रे रक्षकायेति वा । विद्यातपोभ्यामात्मनो दातुश्च पालनक्षम एव प्रतिगृह्णीयादिति शास्त्रात् । तदेवंभूतं दानं सात्त्विकं स्मृतम् ॥ २० ॥

श्री०टी०-पूर्व प्रतिज्ञातमेव दानस्य त्रैविध्यमाह-दातव्यमिति । दातव्यमित्येवं निश्चयेन यद्दानं दीयतेऽनुपकारिणे प्रत्युपकारासमर्थाय देशे कुरुक्षेत्रादौ काले ग्रहणादौ । पात्रे चेति देशकालसाहचर्यात्सप्तमी प्रयुक्ता । पात्रभूताय तपःश्रुतादिसंपन्नाय ब्राह्मणायेत्यर्थः । यद्वा पात्र इति चतुर्थे वैषा पा[१]त्रे रक्षकायेत्यर्थः । स हि सर्वस्मादापद्गणाद्दातारं पातीति । यदेवंभूतं दानं तत्सात्त्विकम् ॥ २० ॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः॥
दीयते च परिक्लिष्टं *तदानं राजसं स्मृतम् ॥ २१ ॥

 म०टी०-प्रत्युपकारार्थ कालान्तरे मामयमुपकरिष्यतीत्येवं दृष्टार्थं फलं वा स्वर्गादिकमुद्दिश्य यत्पुनर्दानं सात्त्विकविलक्षणं दीयते परिक्लिष्टं च कथमेतावव्द्ययितमितिपश्चात्तापयुक्तं यथा भवत्येवं च यद्दीयते तद्दानं राजसं स्मृतम् ॥ २१ ॥

श्री०टी०-राजसं दानमाह-यत्त्विति । कालान्तरेऽयं मां प्रत्युपकारं कार- ष्यतीत्येवमर्थम् , फलं वा स्वर्गादिकमुद्दिश्य यत्पुनर्दानं दीयते परिक्लिष्टं चित्तक्लेश- युक्तं यथा भवत्येवंभूतं तद्दानं राजसमुदाहृतं कथितम् ॥ २१ ॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ॥
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२॥

 अदेशे स्वतो वा दुर्जनसंसर्गाद्वा पापहेतावशुचिस्थाने, अकाले पुण्यहेतुत्वेनाप्रसिद्धे


  • श्रीधरटीकामुलादर्शपुस्तकेषु तद्राजसमुदाहृतमिति पाठः ।

  1. क. पात्र इति तृजन्तं र।