पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १७क्ष्लो० ११]
४४३
श्रीमद्भगवद्गीता।


यते । एतादृशं यद्भोजनं भोज्यं तत्तामसस्य प्रियं सात्त्विकैरतिदूरादुपेक्षणीयमित्यर्थः । एतादृशभोजनस्य दुःखशोकामयप्रदत्वमतिप्रसिद्धमिति कण्ठतो. नोक्तम् । अत्र च क्रमेण रस्यादिवर्गः सात्त्विकः, कट्वादिवर्गो राजसः, यातयामादिवर्गस्तामस इत्युक्तमाहारवर्गत्रयम् । तत्र सात्त्विकवर्गविरोधित्वमितरवर्गद्वये द्रष्टव्यम् । तथा ह्यतिकटुत्वादिकं रस्यत्वविरोधि तादृशस्यानास्वायत्वात् । रूक्षत्वं स्निग्धत्वविरोधि । तीक्ष्णत्वविदाहित्वे धातुपोषणविरोधित्वात्स्थिरत्वविरोधिनी । अत्युष्णत्वादिकं हृद्यत्वविरोधि । आमयप्रदत्वमायुःसत्त्वबलारोग्यविरोधि । दुःखशोकप्रदत्वं सुखप्रीतिविरोधि । एवं सात्त्विकवर्गविरोधित्वं राजसवर्गे स्पष्टम् । तथा तामसवर्गेऽपि गतरसत्वयातयामत्वपर्युषितत्वानि यथासंभवं रस्यत्वस्निग्धत्वस्थिरत्वविरोधीनि । पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्वविरोधीनि । आयुःसत्त्वादिविरोधित्वं तु स्पष्टमेव । राजसवर्गे दृष्टविरोधमात्रं तामसवर्गे तु दृष्टादृष्टविरोध इत्य[१]तिशयः ॥ १० ॥

 श्री०टी०-तथा-यातयाममिति । यातो यामः प्रहरो यस्य पक्वस्यौदनादेस्तद्यातयामं शैत्यावस्थां प्राप्तमित्यर्थः । गतरसं निष्पीडितसारम् । पूति दुर्गन्धं, पर्युषितं दिनान्तरपक्वम् । उच्छिष्टमन्यभुक्तावशिष्टम् । अमेध्यमभक्ष्यं कलञ्जादि । एवंभूतं भोजनं भोज्यं तामसस्य प्रियम् ॥ १० ॥

 म०टी०-इदानीं क्रमप्राप्तं त्रिविधं यज्ञमाह त्रिभिः-

अफलाकाक्षिभिर्यज्ञो विधिदृष्टो य इज्यते ॥
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥

 अग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धज्योतिष्टोमादिर्यज्ञो द्विविधः काम्यो नित्यश्च । फलसंयोगेन चोदितः काम्यः सर्वाङ्गो पसंहारेणैव मुख्यकल्परूपेनानुष्ठेयः । फलसंयोगं विना जीवनादिनिमित्तसंयोगेन चोदितः सर्वाङ्गोपसंहारासंभवे प्रतिनिध्याधुपादानेनामुख्यकल्पेनाप्यनुष्ठेयो नित्यः । तत्र सर्वाङ्गोपसंहारासंभवेऽपि प्रतिनिधिमुपादायावश्यं यष्टव्यमेव प्रत्यवायपरिहारायाऽऽवश्यकजीवनादिनिमित्तेन चोदितत्वादिति मनः समाधाय निश्चित्याफलाकाङ्क्षिभिरन्तःकरणशुध्घा[२]र्थितया काम्यप्रयोगविमुखैर्विधिदृष्टो यथाशास्त्रं निश्चितो यो यज्ञ इज्यतेऽनुष्ठीयते स यथाशास्त्रमन्तःकरणशुद्यर्थमनुष्ठीयमानो नित्यप्रयोगः सात्त्विको ज्ञेयः ॥ ११ ॥

 श्री०टी०-यज्ञोऽपि त्रिविधः । तत्र सात्त्विकं यज्ञमाह-अफलाकाक्षिभिरिति । फलाकाङ्क्षारहितैः पुरुषैविधिना दृष्ट आवश्यकतया विहितो यो यज्ञ इज्यतेऽनुष्ठीयते स सात्त्विको यज्ञः । कथमिज्यते यष्टव्यमेवेति यज्ञानुष्ठानमेव कार्यं नान्यत्फलं साधनीयमित्येवं मनः समाधायैकाग्रं कृत्वेत्यर्थः ॥ ११ ॥


  1. झ. "त्यभिप्रायः ।
  2. घ. ज. ध्यर्थत ।