पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
[अ०१७क्ष्लो०९-१०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


दिदृष्टादृष्टदोषशून्याः, आहाराश्चर्व्य॑चोष्यलेह्यपेयाः, सात्त्विकानां प्रियाः, एतैर्लिङ्गैः सात्त्विका ज्ञेयाः सात्त्विकत्वमभिलषद्भिश्चैत आदेया इत्यर्थः ॥ ८॥

 श्री० टी०-तत्राऽऽहारत्रैविध्यमाह-आयुरिति त्रिभिः । आयुर्जी[१]वितम् । सत्त्वमुत्साहः । बलं शक्तिः । आरोग्यं रोगराहित्यम् । सुखं चित्तप्रसादः । प्रीतिरभिरुचिः । आयुरादीनां विवर्धना विशेषेण वृद्धिकराः। ते च रस्या रसवन्तः स्निग्धाः स्नेहयुक्ताः स्थिरा देहे र[२]सांशेन चिरकालावस्थायिनो हृद्या दृष्टमात्रा एव हृदयंगमाः । एवंभूता आहारा भक्ष्यभोज्यादयः सात्त्विकप्रियाः ॥ ८ ॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ॥
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥

 म०टी०-अतिशब्दः कट्वादिषु सप्तस्वपि योजनीयः । कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात् । तत्रातिकटुनिम्बादिः । अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः । अतितीक्ष्णो मरीचादिः । अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः । अतिविदाही संता[३]पको राजिकादिः । दुःखं तात्कालिकीं पीडां, शोके पश्चाद्भावि दौर्मनस्यम् , आमयं रोगं च धातुवैषम्यद्वारा प्रददतीति तथाविधा आहारा राजसस्येष्टाः । एतैर्लिङ्गै राजसा ज्ञेयाः सात्त्विकैश्चैत उपेक्षणीया इत्यर्थः ॥ ९ ॥

 श्री. टी.-तथा-कट्विति । अतिशब्दः कट्वादिषु सप्तस्वपि संबध्यते । अतिकटुर्निम्बादिः । अत्यम्लोऽतिलवणोऽत्युष्णश्च प्रसिद्धः । अतितीक्ष्णो मरीचादिः । अतिरूक्षः कङ्गुकोद्रवादिः । अतिविदाही सर्षपादिः । अतिकट्वादय आहारा राजसस्येष्टाः प्रियाः । दुखं तात्कालिकं हृदयसंतापादि । शोकः पश्चाद्भावि दौर्मनस्यम् । आमयो रोगः । एतान्प्रददति प्रयच्छ[४]न्तीति[५] तथा ॥९॥

यातयामं गतरसं पूति पर्युषितं च यत् ॥
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १०॥

 म० टी०-यातयाममर्धपक्वं निर्वीर्यस्य गतरसपदेनोक्तत्वादिति भाष्यम् । गतरसं विरसता प्राप्तं शु[६]ष्कम् । यातयामं पक्कं सत्प्रहरादिव्यवहितमोदनादि शैत्यं प्राप्तं, गतरसमुद्धृतसारं मथितदुग्धादीत्यन्ये । पूति दुर्गन्धम् । पर्युषितं पक्वं सद्राव्यन्तरितम् । चेन तत्कालोन्मादकरं धतूरादि समुच्चीयते । यदतिप्रसिद्धं दुष्टत्वेनोच्छिष्टं मुक्तावशिष्टम् । अमेध्यमयज्ञार्हमशुचि मांसादि । अपि चेति वैद्यकशास्त्रोक्तमपथ्यं समुच्ची-


  1. घ. ङ. ज. जीवनम् ।
  2. क. सारांशेन ।
  3. ख. ज. “पकरो रा ।
  4. ख. ग. घ.' च. छ. ज. च्छन्ति ॥ ९॥
  5. ङ. झ. ति ॥ ९॥
  6. ख. ङ. झ. शुक्तम् ।