पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
[अ० १७ क्ष्लो०३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म० टी०-प्राग्भवीयान्तःकरणगतवासनारूपनिमित्तकारणवैचित्र्येण श्रद्धावैचित्र्यमुक्त्वा तदुपादानकारणान्तःकरणवैचित्र्येणापि तद्वैचित्र्यमाह-

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ॥
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३॥

 सत्त्वं प्रकाशशीलत्वात्सत्त्वप्रधानत्रिगुणापञ्चीकृतपञ्चमहाभूतारब्धमन्तःकरणम् । तच्च क्वचिदुद्रिक्तसत्त्वमेव यथा देवानाम् । क्वचिद्रजसाऽभिभूतसत्त्वं यथा यक्षादीनाम् । क्वचित्तमसाऽभिभूतसत्त्वं यथा प्रेतभूतादीनाम् । मनुष्याणां तु प्रायेण व्यामिश्रमेव । तच्च शास्त्रीयविवेकज्ञानेनोद्भुतसत्त्वं रजस्तमसी अभिभूय क्रियते । शास्त्रीयविवेकविज्ञानशून्यस्य तु सर्वस्य प्राणिजातस्य सत्त्वानुरूपा श्रद्धा . सत्त्ववैचित्र्याद्विचित्रा भवति, सत्त्वप्रधानेऽन्तःकरणे सात्तिकी, रजःप्रधाने तस्मिन्राजसी, तमःप्रधाने तु तस्मिंस्तामसीति । हे भारत महाकुलप्रसूत ज्ञाननिरतेति वा शुद्धसात्त्विकत्वं द्योतयति । यत्त्वया पृष्टं तेषां निष्ठा केति तत्रोत्तरं शृणु-अयं शास्त्रीयज्ञानशून्यः कर्माधिकृतः पुरुषस्त्रिगुणान्तःकरणसंपिण्डितः श्रद्धामयः प्राचुर्येणास्मिञ्श्रद्धा [१] प्रकृतेति तत्प्रस्तु(कृ)तवचने मयट् , अन्नमयो यज्ञ इतिवत् । अतो यो यच्छूद्धो या सात्त्विकी राजसी तामसी वा श्रद्धा यस्य स एव श्रद्धानुरूप एव स सात्त्विको राजसस्तामसो वा । श्रद्धयैव निष्ठा व्याख्यातेत्यभिप्रायः ॥ ३ ॥

 श्री०टी०-ननु च श्रद्धा सात्त्विक्येव सत्त्वकार्यत्वेन त्वयैव भगवतोद्धवं प्रति निर्दिष्टत्वात् । यथोक्तम्-

"शमो दमस्तितिक्षे[२]क्षा तपः सत्यं दया स्मृतिः ।
तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः

 इत्येताः सत्त्वस्य वृत्तय इति । अतः कथं तस्यास्त्रैविध्यमुच्यते । सत्यम् , तथाऽपि रजस्तमोयुक्त पुरुषाश्रयत्वेन रजस्तमोमिश्रत्वेन सत्त्वस्य त्रैविध्याच्छूद्धाया अपि त्रैविध्यं घटत इत्याह-सत्त्वानुरूपेति । सत्त्वानुरूपा सत्त्वतारतम्यानुसारिणी सर्वस्य विवेकिनोऽविवेकिनो वा लोकस्य श्रद्धा भवति । तस्मादयं पुरुषो लौकिकः श्रद्धामयः श्रद्धाविकारस्त्रिविधया श्रद्धया विक्रियत इत्यर्थः । तदेवाऽऽह-यो यच्छ्रद्धः, यादृशी श्रद्धा यस्य स एव सः, तादृश्या श्रद्धया युक्त एव सः। यः पूर्वं सत्त्वोत्कर्षेण सात्त्विकश्रद्धया युक्तः पुरुषः स पुनस्तादृशः स्वसंस्कारेण सात्त्विकश्रद्धया युक्त एव भवति । यस्तु रजस उत्कर्षेण राजसश्रद्धायुक्तः स


  1. क. ख. घ. ड. च. ज. झ. ञ. प्रस्तुते
  2. क. ख. ग. घ. ङ. च. छ. ज. झ.'क्षेज्या त।