पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो०१४ ]
३९
श्रीमद्भगवद्गीता ।


 म०टी०-नन्वात्मनो नित्यत्वे विभुत्वे च न विवदामः प्रतिदेह[१]मेकत्वं तु न सहामहे, तथाहि-बुद्धिसुखदुःखच्छाद्वेषप्रयत्नधर्माधर्मभावनाख्यनवविशेषगुणवन्तः प्रतिदेहं भिन्ना एव नित्या विभवश्वाऽऽत्मान इति वैशेषिका मन्यन्ते । इममेव च पक्षं तार्किकमीमांसकादयोऽपि प्रतिपन्नाः । सांख्यास्तु विप्रतिपद्यमान अध्यात्मनो गुणवत्त्वे प्रतिदेह भेदे न विप्रतिपद्यन्तेऽन्यथा सुखदुःखादिसंकरप्रसङ्गात् । तथाच भीष्मादिभिन्नस्य मम नित्यत्वे विभुत्वेऽपि सुखदुःखादियोगित्वाद्धीष्मादिबन्धुदेहविच्छेदे सुखवियोगो दुःखसंयोगश्च स्यादिति शोकमोहौ नानुचिताविति अर्जुनाभिप्रायमाशङ्कय लिङ्गशरीरविवेकायाऽऽहं--

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ॥
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४॥

 मीयन्त आभिर्विषया इति मात्रा इन्द्रियाणि तासां स्पर्शा विषयैः संबन्धास्तत्तद्विषयाकारान्तःकरणपरिणामा वा । त आगमापायिन उत्पत्तिविनाशव[२]तोऽन्तःकरणस्यैव शीतोष्णादिद्वारा सुखदुःखदा नतु नित्यस्य विभोरात्मनः, तस्य निर्गुणत्वान्निर्विकारत्वाच्च । न हि नित्यस्यानित्यधर्माश्रयत्वं संभवति धर्मधर्मिणोरभेदात्संबन्धान्तरानुपपत्तेः साक्ष्यस्य साक्षिधर्मत्वानुपपत्तेश्च । तदुक्तम्---

"नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः " इति ॥

 तथा च सुखदुःखाद्याश्रयीभूतान्तःकरणभेदादेव सर्वव्यवस्थोपपत्तेर्न निर्विकारस्य सर्वभासकस्याऽऽत्मनो भेदे मानमस्ति सद्रूपेण स्फुरणरूपेण च सर्वत्रानुगमात् । अन्तः- करणस्य तावत्सुखदुःखादौ जनकत्वमुभयवादिसिद्धम् । तत्र समवायिकारणत्वस्यैवाम्यहिंतत्वात्तदेव कल्पयितुमुचितं न तु समवायिकारणान्तरानुपस्थितौ निमित्तत्वमात्रम् । तथा च कामः संकल्प इत्यादिश्रुतिरेतत्सर्वं मन एवेति कामादिसर्वविकारोपादानत्वमभेदनिर्देशान्मनस आह । आत्मनश्च स्वप्रकाशज्ञानानन्दरूपत्वस्य श्रुतिभिर्बोधनान्न कामाद्याश्रयत्वम् । अतो वैशेषिकादयो भ्रान्त्यैवाऽऽत्मनो विकारित्वं भेदं चाङ्गीकृतवन्त इत्यर्थः । अन्तःकरणस्याऽऽगमापायित्वाद्दश्यत्वाच्च नित्यदृग्रूपात्वत्तो भिन्नस्य सुखादिजनका ये मात्रास्पशास्तेऽप्यनित्या अनियतरूपा एकदा सुखजनकस्यैव शीतोष्णादेरन्यदा दुःखजनकत्वदर्शनात्, एवं कदाचिद्दुःखजनकस्याप्यन्यदा सुखजनकत्वदर्शनात् । शीतोष्णग्रहणमाध्यामिकाधिभौतिकाधिदैविकसुखदुःखेपलक्षणार्थम् । शीतमुष्णं च कदाचित्सुखं कदाचिद्दुःखं सुखदुःखे तु न कदाऽपि विपर्ययेते इति पृथङ्-


  1. क. छ. हसमत्वं । अ. हमभेदत्वं ।
  2. ग. ज. अ. 'वन्तोऽन्तः। झ“वन्तोऽतोऽन्तः ।