पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[अ०१६क्ष्लो०९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तदुत्पत्तिरित्याशङ्कयाऽऽह-अपरस्परसंभूतं कामप्रयुक्तयोः स्त्रीपुंसयोरन्योन्यसंयो- गात्संभूतं जगत्कामहैतुकं कामहेतुकमेव कामहैतुकं कामातिरिक्तकारणशून्यम् । ननु धर्माद्यप्यस्ति कारणं नेत्याह-किमन्यत्, अन्यददृष्टं कारणं किमस्ति नास्त्येवेत्यर्थः । अदृष्टाङ्गीकारेऽपि क्वचिद्गत्वा स्वभावे पर्यवसानात्स्वाभाविकमेव जगद्वैचित्र्यमस्तु दृष्टे संभवत्यदृष्टकल्पनानवकाशात् । अतः काम एव प्राणिनां कारणं नान्यददृष्टेश्वरादीत्याहुरिति लोकायतिकदृष्टिरियम् ॥ ८ ॥

 श्री० टी०- ननु वेदोक्तयोर्धर्माधर्मयोः प्रवृत्तिं निवृत्तिं च कथं न विदुः, कुतो वा धर्माधर्मयोरनङ्गीकारे जगतः सुखदुःखादिव्यवस्था स्यात् , कथं वा शौचाचारादिविषयामीश्वराज्ञामतिवर्तेरन् , ईश्वरानङ्गीकारे च कुतो जगदुत्पत्तिः स्यादत आह- असत्यमिति । नास्ति सत्यं वेदपुराणादिप्रमाणं यस्मिंस्तादृशं जगदाहुः । वेदा[१]दीनां प्रामाण्यं न मन्यन्त इत्यर्थः । तदुक्तम्-" त्रयो वेदस्य कर्तारो मुनिमण्डनिशाचराः" इत्यादि । अत एव नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थाहेतुर्यस्य तत् । स्वाभाविकं जगद्वैचित्र्यमाहुरित्यर्थः । अत एव नास्तीश्वरः कर्ता व्यवस्थापकश्च यस्य तादृशं जगदाहुः । तर्हि कुतोऽस्य जगत उत्पत्तिं वदन्तीत्यत आह-अपरस्परसंभूतमिति । अपरश्च परश्चेत्यपरस्परमपरस्परतोऽन्योन्यतः स्त्रीपुरुषमिथुनात्संभूतं जगत्। किमन्यत्कारणमस्य नास्यन्यत्किंचित् , किंतु कामहै[२]तुकमेव स्त्रीपुरुषयोः काम एव प्रवाहरूपेण हेतुरस्येत्याहरित्यर्थः ॥ ८॥

 म० टी०-[३]इयं दृष्टिः शास्त्रीयदार्ष्टवादष्टैवेत्याशङ्कयाऽऽह-~-

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥ ९ ॥

 एता प्रागुक्तां लोकायतिकदृष्टिमवष्टम्याऽऽलम्ब्य नष्टात्मानो भ्रष्टपरलोकसाधना अल्पबुद्धयो दृष्टमात्रोद्देशप्रवृत्तमतय उग्रकर्माणो 'हिंस्रा अहिताः शत्रवो जगतः प्राणिजातस्य क्षयाय व्याघ्रसर्पादिरूपेण प्रभवन्ति उत्पद्यन्ते । तस्मादियं दृष्टिरत्यन्ताधोगतिहेतुतया सर्वात्मना श्रेयोर्थिभिरवहेयैवेत्यर्थः ॥ ९ ॥

 श्री०टी०- च-एतामिति । एतां लोकायतिकानां दृष्टिं दर्शनमाश्रित्य नष्टात्मानो मलिनचित्ताः सन्तोऽल्पबुद्धयो दृष्टार्थमात्रमतयः । अत एवोग्रं हिंस्रं कर्मं येषां तेऽहिता वैरिणो भूत्वा जगतः क्षयाय प्रभवन्ति उद्भवन्तीत्यर्थः ॥९॥

 म०टी०-ते च यदा केनचित्कर्मणा मनुष्ययोनिमापद्यन्ते तदा-


  1. क. "रो भण्डधूर्तनि ।
  2. ङ. च. झ. महेतुकमेव कामहैतुकं स्त्री' ।
  3. ग. छ. म. नन्धियं ।