पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
[अ० १६ क्ष्लो०६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


संपत्तया युक्तो मयो[१]क्ते तत्त्वज्ञानेऽधिकारी । आसुर्या संपदा युक्तस्तु नित्यं संसारीत्यर्थः । एतच्छ्रुत्वा किमहमत्राधिकारी न वेतिसंदेहव्याकुलाचित्तमर्जुनमाश्वासयति-हे पाण्डव मा शुचः शोकं मा कार्षीः, यतस्त्वं दैवीं संपदमभिजातोऽसि ॥ ५ ॥

 म. टी.-ननु भवतु राक्षसी प्रकृतिरासुर्यामन्तर्भूता शास्त्रनिषिद्धक्रियोन्मुखत्वेन सामान्यात्कामोपभोगप्राधान्यप्राणिहिंसाप्राधान्याभ्यां क्वचिद्भेदेन व्यपदेशोपपत्तेः, मानुषी तु प्रकृतिस्तृतीया पृथगस्ति " त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः” इति श्रुतेः । अतः साऽपि हेयकोटावुपादेयकोटौ वा वक्तव्येत्यत आह-

दो भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ॥
देवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६॥

 अस्मिल्लोके सर्वस्मिन्नाप संसारमार्गे द्वौ द्विप्रकारावेव भूतसर्गौ मनुष्यसर्गौ भवतः । कौ तौ दैव आसुरश्च, न तु राक्षसो मानुषो वाऽधिकः सर्गोऽस्तीत्यर्थः । यो यदा मनुष्यः शास्त्रसंस्कारप्राबल्येन स्वभावसिद्धौ रागद्वेषावभिभूय धर्मपरायणो भवति स तदा देवः । यदा तु स्वभावसिद्धरागद्वेषप्राबल्येन शास्त्रसंस्कारमभिभूयाधर्मपरायणो भवति स तदाऽसुर इति द्वैविध्योपपत्तेः । न हि धर्माधर्माभ्यां तृतीया कोटिरस्ति । तथा च श्रूयते----" द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः ” इति । दमदानदयाविधिपरे तु वाक्ये त्रयाः प्राजापत्या इत्यादौ दमदानदयारहिता मनुष्या असुरा एव सन्तः केनचित्साधर्म्येण देवा मनुष्या असुरा इत्युपर्यन्त इति नाऽऽधिक्यावकाशः । एकैनैव द इत्यक्षरेण प्रजापतिना दमरहितान्मनुष्यान्प्रति दमोपदेशः कृतः, दानरहितान्प्रति दानोपदेशः, दयारहितान्प्रति दयोपदेशः, न तु विजातीया एव देवासुरमनुष्या इह विवक्षिता मनुष्याधिकारत्वाच्छास्त्रस्य । तथा चान्त उपसंहरति-"तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्रयं शिक्षेद्दमं दानं दयामिति । तस्माद्राक्षसी मानुषी च प्रकृतिरासुर्यामेवान्तर्भवतीति युक्तमुक्तं द्वौ भूतसर्गाविति । तत्र देवो भूतसर्गो मया त्वां प्रति विस्तरशो विस्तरप्रकारैः प्रोक्तः स्थितप्रज्ञलक्षणे द्वितीये [२]भक्तलक्षणे द्वादशे ज्ञानलक्षणे त्रयोदशे गुणातीतलक्षणे चतुर्दश इह चाभयमित्यादिना । इदानीमासुरं भूतसर्ग मे मद्वचनैर्विस्तरशः प्रतिपाद्यमानं त्वं शृण हानार्थमवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कर्तुमिति । हे पार्थेति संबन्धसूचनेनानुपेक्षणीयतां दर्शयति ॥ ६॥


  1. ख. ग. ङ. च. झ. 'योपदिष्टे त ।
  2. क. भक्तिल' ।