पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १६क्ष्लो०५]
४२३
श्रीमद्भगवद्गीता।


 दम्भो धार्मिकतयाऽऽत्मनः ख्यापनं तदेव धर्मध्वनित्वम् । दर्पो धनस्वजनादिनिमित्तो महदवधारणाहेतुर्गर्वविशेषः । अतिमान आत्मन्यत्यन्तपूज्यत्वातिशयाध्यारोपः " देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवाऽऽस्येषु जुहतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य ह्येतन्मुखं यदतिमानः" इतिशतपथश्रुत्युक्तः । क्रोधः स्वपरापकारप्रवृत्तिहेतुरभिज्वलनात्मकोऽन्तःकरणवृत्तिविशेषः । पारुष्यं प्रत्यक्षरूक्षवदनशीलत्वम् । चकारोऽनुक्तानां मावभूतानां चापलादिदोषाणां समुच्चयार्थः । अज्ञानं कर्तव्याकर्तव्यादिविषयविवेकाभावः । चशब्दोऽनुक्तानामभावभूतानामधृत्यादिदोषाणां समुच्चयार्थः । आसुरी- मसुररमणहेतुभूतां रजस्तमोमयीं संपदमशुभवासनासंततिं शरीरारम्भकाले पापकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता दोषा एव भवन्ति न त्वमयाद्या गुणा इत्यर्थः । हे पार्थेति संबोधयन्विशुद्धमातृकत्वेन तदयोग्यत्वं सूचयति ॥ ४ ॥

श्री० टी--आसुरी संपदमाह-दम्भ इति । दम्भो धर्मध्वजित्वम् । दर्पो धनविद्यादिनिमित्तश्चित्तस्योत्सेकः । अभिमानो व्याख्यातः । क्रोधः प्रसिद्धः । पारुष्यं निष्ठुरत्वम् । अज्ञानमविवेकः । आसुरीमित्युपलक्षणम् । असुराणां राक्षसानां च या संपत्तामासुरीममिलक्ष्य जातस्यैतानि दम्भादीनि भवन्तीत्यर्थः ॥ ४ ॥

 म०टी०-अनयोः संपदोः फलविभागोऽभिधीयते-

दैवी संपदिमोक्षाय निबन्धायाऽऽसुरी मता ॥
मा शुचः संपदं देवीममिजातोऽसि पाण्डव ॥ ५॥

 यस्य वर्णस्य यस्याऽऽश्रमस्य च या विहिता सात्त्विकी फलाभिसंधिरहिता क्रिया सा तस्य दैवी संपत्सा सत्त्वशुद्धिभगवद्भक्तिज्ञानयोगस्थितिपर्यन्ता सती संसारबन्धनाद्विमोक्षाय कैवल्याय भवति । अतः सैवोपादेया श्रेयोर्थिभिः । या तु यस्य शास्त्रनिषिद्धा फलाभिसंधिपूर्वा साहंकारा च राजसी तामसी क्रिया तस्य सा सर्वाऽप्यासुरी संपत् । अतो राक्षस्यपि तदन्तर्भूतैव । सा निबन्धाय नियताय संसारबन्धाय मता संमता शास्त्राणां तदनुसारिणां च । अतः सा हेयैव श्रेयोर्थिभिरित्यर्थः । तत्रैवं सत्यहं कया संपदा युक्त इति संदिहानमर्जुनमाश्वासयति भगवान्-मा शुचः, अहमासुर्या संपदा युक्त इति शङ्कया शोकमनुतापं मा कार्षीः, दैवीं संपदमभिलक्ष्य जातोऽसि प्रागर्जितकल्याणो भाविकल्याणश्च त्वमसि हे पाण्डव पाण्डुपुत्रेवन्येष्वपि दैवी संपत्प्रसिद्धा किं पुनस्त्वयीति भावः ॥ ५ ॥

 श्री०टी०-एतयोः संपदोः कार्य दर्शयन्नाह-दैवी संपदिति । दैवी या .