पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०२क्ष्लो०८ ]
३३
श्रीमद्भगवद्गीता ।


 ननु त्वं मम सखा न तु शिष्योऽत आह---शिष्यस्तेऽहमिति । त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न[१] सखा न्यूनज्ञानत्वात् । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थः । एतेन " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्, " " भृगुर्वै वारुणिर्वरुणं पितरमुपससार, अधीहि भगवो ब्रह्म " इत्यादिगुरूपसत्तिप्रतिपादकः श्रुत्य दर्शितः ॥ ७ ॥

 श्री०टी०तस्मात्-कार्पण्येति । कार्पण्यदोषोपहतस्वभाव एतान्हत्वा कथं जीविष्याम इति कापण्यं, दोषश्च स्वकुलक्षयकृतस्ताभ्यामुपहतोऽभिभूतः स्वभावः शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि । तथा धर्म संमूढं चेतो यस्य स युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मो वाऽधर्मों वेति संदिग्धचित्तः सन्नित्यर्थः । अतो मे यन्निश्चित श्रेयो युक्तं स्यात्तब्रूहि । किंच तेऽहं शिष्यः शासनार्हः । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥ ७ ॥

 म० टी०–ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसंपन्नोऽसि किं परशिष्यत्वेनेत्यत आह--

न हि प्रपश्यामि ममापनुद्या-
 घच्छोकसुच्छोषणमिन्द्रियाणाम् ॥
अवाप्य भूमावसपत्नमृद्ध
 राज्यं सुराणामपि चाऽऽधिपत्यम् ॥ ८॥

 यच्छ्रेयः प्राप्त सत्कर्ते मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवः शोचामि ते मा भगवाञ्शोकस्य पारं तारयतु " इतिश्रुत्यर्थों दर्शितः । शोकानपनोदे को दोष इत्याशङ्कय तद्विशेषणमाह-इन्द्रियाणामुच्छोषणमिति । सर्वदा संतापकरमित्यर्थः । ननु युद्धे प्रयतमानस्य तव शाकानिवृत्तिभविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या, इतरथा च स्वर्गप्राप्त्या द्रावेतौ पुरुषौ लोके " इत्यादिधर्मशास्त्रादित्याशङ्कयाऽऽह–अवाप्येत्यादिना । शत्रुवजितं सस्यादिसंपन्नं च राज्यं तथा सुराणामधिपत्यं हिरण्यगर्भवपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः । " तद्यथेह कर्म[२]जितो लोकः क्षीयत एवमेवामुत्र पुण्य[३]नितो लोकः क्षीयते " इति श्रुतेः । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगः शोकनि-


  1. घ. अ. न तु स’ ।
  2. क. घ. झ. "भत्रित ।
  3. क. घ. झु. “यचितो।