पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो०५ ]
२९
श्रीमद्भगवद्गीता ।


 भीष्मं पितामहं द्रोणं चाऽऽचार्यं संख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथं, न कथंचिदपीत्यर्थः । यतस्तौ पूजार्हौ कुसुमादिभिरर्चनयोग्यौ । पूजार्हाभ्यां सह क्रीडास्थानेऽपि वाचाऽपि हर्षफलकमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैः प्राणत्यागफलकं प्रहरणमित्यर्थः । मधुसूदनारिसूदनेति संबोधनद्वयं शोकव्याकुलत्वेन पूर्वीपरपरामर्शवैकल्यात् । अतो न मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषः । युद्धमात्रमपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्यनेन सूचितम् । अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्ह्योरेव विवरणं भीष्म द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देवदत्तं यज्ञदत्तं चेतिवत्संबन्धः । अयं भावः-दुर्योधनादयो नापुरस्कृत्य भीष्मद्रोणौ युद्धाय सज्जी भवन्ति । तत्र ताभ्यां सह युद्ध न तावद्धर्मः पूजादिवदविहितत्वात् । न चायमनिषिद्धत्वादधर्मोऽपि न भवतीति वाच्यम् । "गुरुं हुंकृत्य[१] त्वंकृत्य " इत्यादिना शब्दमात्रेणापि गुरुद्रोहो यदाऽनिष्टफलत्वप्रदर्शनेन निषिद्धस्तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति॥४॥

 श्री० टी०–नाहं कात[२]र्येण युद्धापरतोऽस्मि किंतु युद्धस्यान्याय्यत्वादिति--- कथमिति । भीष्मद्रोणौ पूजायामर्हौ योग्यौ तौ प्रति कथमहं योत्स्यामि तत्रापीषुभिः । यत्र वाचाऽपि योत्स्यामीति वक्तुमनुचितं तत्र बाणैः कथं योत्स्यामीत्यर्थः । हेऽरिसूदन शत्रु[३]निर्दलन ॥ ४ ॥

 म० टी०-ननु भीष्मद्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवमन्येषामपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः सांप्रतमुचितः--

"गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते" ॥

इति स्मृतेः, तस्मादेषां युद्धगर्वेणावलिप्तानामन्यायराज्यग्रहणेन शिष्यद्रोहेण च कार्याकार्यविवेकशून्यानामुत्पथनिष्ठानां वध एव श्रेयानित्याशङ्कयाऽऽह-

गुरूनहत्वा हि महानुभावा-
 ञ्छ्रेयो भोक्तुं भै[४]क्षमपीह लोके ॥
हवाऽर्थकामांस्तु गुरूनिहैव।
 भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥


  1. ग. घ. ङ. च. छ. ज. झे. “त्य तुक°।
  2. ख. ग. घ. ङ. च. छ. ज. झ. “तरत्वेन यु ।
  3. ख. ग. इ. च. छ. ज. “चुनिषूदन । क. ञ. त्रुसदन ।
  4. क. ख. ग. घ. ङ. छ. ब. भैक्ष्यम” ।