पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ११ क्ष्लो ०२१-२२]
३३१
श्रीमद्भगवद्गीता।

 द्यावापृथिव्योरिदमन्तरमन्तरिक्षं हि एव त्वयै[१]वैकेन व्याप्तं दिशश्च सर्वा व्याप्ताः । दृष्ट्वाऽद्तभूतमत्यन्तविस्मयकरमिदमुग्रं दुरधिगमं महातेजस्वित्वात्तव रूपमुपलभ्य लोकत्रयं प्रव्यथितमत्यन्तभीतं जातं हे महात्मन्साधूनामभयदायक । इतः परभिदमुपसंहरेत्यभिप्रायः ॥ २० ॥

 श्री०टी०-किच-द्यावापृथिव्योरिति । द्यावापृथिव्योरिदमन्तरं हि अन्तरिक्षं त्वयैकेन व्याप्तम् । दिशश्च सर्वा व्याप्ताः । अद्भूतमदृष्टपूर्वं त्वदीयमिदमुग्रं घोरं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितमतिभीतं पश्यामीति पूर्वस्यैवानुषङ्गः ॥ २० ॥

 म०टी०-अधुना भूभारसंहारकारित्वमात्मनः प्रकटयन्तं भगवन्तं पश्यन्नाह--

अमी हि त्वा+ सुरसंघा विशन्ति
 केचिद्गीताः प्राञ्जलयो गृणन्ति ॥
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः
 स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥२१॥

 अमी हि सुरसंघा वस्वादिदेवगणा भूभारावतारार्थं मनुष्यरूपेणावती[२]र्णा युध्यमानाः सन्तस्त्वा त्वां विशन्ति प्रविशन्तो दृश्यन्ते । एवमसुरसंघा इति पदच्छेदेन भूमारभूता दुर्योधनादयस्त्वां विशन्तीत्यपि वक्तव्यम् । एवमुभयोरपि सेनयोः केचिद्भीताः पलायनेऽप्यशक्ताः सन्तः प्राञ्जलयो गृणन्ति स्तुवन्ति त्वाम् । एवं प्रत्युपस्थिते युद्ध उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु सर्वस्य जगत इत्युक्त्वा महर्षिसिद्धसंघा नारदप्रभृतयो युद्धदर्शनार्थमागता विश्वविनाशपरिहाराय स्तुवन्ति त्वां स्तुतिभिर्गुणोत्कर्षप्रतिपादिकाभिर्वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः ॥ २१ ॥

 श्री०टी०-किंच-अमी हीति । अमी सुरसंघा भीताः सन्तस्त्वां विशन्ति शरणं प्रविशन्ति । तेषां मध्ये केचिदतिभीता दूरत एव स्थित्वा कृतसंपुटकरयुगुलाः सन्तो गृणन्ति जय जय रक्ष रक्षेति प्रार्थयन्ते । स्पष्टमन्यत् ॥ २१ ॥

 म०टी०-किं चान्यत्-

रुद्रादित्या वसवो ये च साध्या
 विश्वेऽश्विनौ मरुतश्वोष्मपाश्च ॥
गन्धर्वयक्षासुरसिद्धसंघा
 वीक्षन्ते त्वा* विस्मिताश्चैव सर्वे ॥ २२ ॥

 + श्रीधरटीकामूलस्थस्त्वामिति पाठः । * श्रीधरटीकामूलस्थस्त्वामिति पाठः


  1. ख. ग. घ. ङ. च. छ. झ. अ. 'यैके ।
  2. ज. 'तीर्णोऽसीत्यबुध्य' ।