पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
[अ०११क्ष्लो० १९-२०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 त्वमेवाक्षरं परमं ब्रह्म वेदितव्यं मुमुक्षुभिर्वेदान्तश्रवणादिना । त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतेऽस्मिन्निति निधानमाश्रयः । अत एव त्वमव्ययो नित्यः । शाश्वतस्य नित्यवेदप्रतिपाद्यतयाऽस्य धर्मस्य गोप्ता पालयिता । शाश्वतेति संबोधनं वा । तस्मिन्पक्षेऽव्ययो विनाशरहितः । अत एव सनातनश्चिरंतनः पुरुषो यः परमात्मा स एवं त्वं मे मतो विदितोऽसि ॥ १८ ॥

 श्री०टी०-यस्मादेवं तवातर्क्यमैश्वर्यं तस्मात्-त्वमिति । त्वमेवाक्षरं परमं ब्रह्म । कथंभूतं वेदितव्यं मुमुक्षुभिर्ज्ञातव्यम् । त्वमेवास्य विश्वस्य परं निधानं निधीयतेऽस्मिन्निति निधानं प्रकृष्ट आश्रयः । अत एव त्वमव्ययो नित्यः शाश्वतस्य नित्यस्य धर्मस्य गोप्ता पालकः सनातनश्चिरंतनः पुरुषो मम संमतोऽसि ॥ १८ ॥

 म०टी०-किंच-

अनादिमध्यान्तमनन्तवीर्य-
 मनन्तबाहुं शशिमूर्यनेत्रम् ॥
पश्यामि त्वा* दीप्तहुताशवक्त्रं
 स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥

 आदिरुत्पत्तिमध्यं स्थितिरन्तो विनाशस्तद्रहितमनादिमध्यान्तम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता बाहवो यस्य तम् । उपलक्षणमेतन्मुखादीनामपि । शशिसूर्यों नेत्रे यस्य तम् । दीप्तो हुताशो वक्त्रं यस्य वक्त्रेषु यस्येति वा तम् । स्वतेजसा विश्वमिदं तपन्तं संतापयन्तं त्वा त्वां पश्यामि ॥ १९ ॥

 श्री०टी०-किंच-अनादीति । अनादिमध्यान्तमुत्पत्तिस्थितिप्रलयरहितम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्तबाहुमनन्ता वीर्यवन्तो बाहवो यस्य तम् । शशिसूर्यौ नेत्रे यस्य तादृशं त्वां पश्यामि । तथा दीप्तो हुताशोऽग्निर्वक्रेषु यस्य तम् । स्वतेजसेदं विश्वं तपन्तं संतापयन्तं पश्यामि ॥ १९ ॥

 म० टी०-प्रकृतस्य भगवद्रूपस्य व्याप्तिमाह--

द्यावापृथिव्योरिदमन्तरं हि
 व्याप्तं त्वयैकेन दिशश्च सर्वाः॥
दृष्ट्वाऽद्भुतं 'रूप[१]मिदं तवोग्रं
 लोकत्रयं प्रव्यथितं महात्मन् ॥ २०॥

 * श्रीधरटीकामूले त्वामिति पाठः । + रूपमुग्रं तवेदमिति श्रीधरटीकामूलपाठः ।


  1. ख. ग. घ. ङ. च. छ. ज. झ, भ, “पमुग्रं तवेदं लो।