पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
[अ०११ क्ष्लो०१५-१६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

 श्री०टी-एवं दृष्ट्वा किं कृतवानित्यत आह-तत इति । ततो दर्शनानन्तरं विस्मयेनाऽऽविष्टो व्याप्तः सन्दृष्टान्युत्पुलकितानि रोमाणि यस्य स धनंजयो देवं तमेव शिरसा प्रणम्य कृताञ्जलिः संपुटीकृतहस्तो भूत्वाऽभाषतोक्तवान् ॥ १४ ॥

 म०टी०-यद्भगवता दर्शितं विश्वरूपं तद्भगवद्दत्तेन दिव्येन चक्षुषा सर्वलोकादृश्यमपि पश्याम्यहो मम भाग्यप्रकर्ष इति स्वानुभवमाविष्कुर्वन्-

अर्जुन उवाच-
 पश्यामि देवांस्तव देव देहे
  सर्वास्तथा भूतविशेषसंघान् ॥
 ब्रह्माणमीशं कमलासनस्थ-
  मृषीश्च सर्वानुरगांश्च दिव्यान् ॥ १५॥

 पश्यामि चाक्षुषज्ञानविषयी करोमि हे देव तव देहे विश्वरूपे देवान्वस्वादीन्सर्वान्, तथा भूतविशेषाणां स्थावराणां जङ्गमानां च नानासंस्थानानां संवान्समूहान् , तथा ब्रह्माणं चतुर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थं भगवन्नाभिकमलासनस्थमिति वा । तथा-ऋषींश्च सर्वान्वसिष्ठादीन्ब्रह्मपुत्रान् , उरगांश्च दिव्यानप्राकृतान्वासुकिप्रभृतीन्पश्यामीति सर्वत्रान्वयः ॥ १५ ॥

 श्री०टी०-भाषणमेवाऽऽह पश्यामीति सप्तदशभिः-हे देव तव देहे देवानादित्यादीन्पश्यामि । तथा सर्वान्भूतविशेषाणां जरायुजाण्डजादीनां संघांश्च । तथा दिव्यानृषीन्वसिष्ठादीनुरगांश्च तक्षकादीन् । तथा तेषां देवादीनामीशं स्वामिनं [१]ब्रह्माणम् । कथंभूतम् , कमलासनस्थं पृथ्वीपद्मकणिकायां मेरौ स्थितम् । यद्वा त्वन्नाभिपद्मासनस्थम् ॥ १५ ॥

 म० टी-यत्र भगवदेहे सर्वमिदं दृष्टवान् , तमेव विशिनष्टि-

 अनेकवाहूदरवक्त्रनेत्रं
  पश्यामि त्वा सर्वतोनन्तरूपम् ॥
 नान्तं न मध्यं न पुनस्तवाऽऽदि
  पश्यामि विश्वेश्वर विश्वरूप ॥ १६॥


  • श्रीधरटीकामूलादर्शपुस्तकेषु त्वामिति पाठः ।

  1. क.ख. ग, ङ. च. छ. ज, झ. अ. झाणं च ।क।