पस्य भासः प्रभायाः कथंचित्सदृशी स्यात् , नान्योपमाऽस्तीत्यर्थः । तथाभूतं रूपं दर्शयामासेति पूर्वेणैवान्वयः ॥ १२ ॥
म० टी०- " इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्" इति भगवदाज्ञप्तमप्यनुभूतवानर्जुन इत्याह-
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ॥ |
एकस्थमेकत्र स्थितं जगत्कृत्स्नं प्रविभक्तमनेकधा देवपितृमनुष्यादिनानाप्रकारैरपश्यदेवदेवस्य भगवतः । तत्र विश्वरूपे शरीरे पाण्डवोऽर्जुनस्तदा विश्वरूपाश्चर्यदर्शनदशायाम् ॥ १३ ॥
श्री०टी०-ततः किं वृत्तमित्यपेक्षायामाह संजयः-तत्रेति । अनेकधा प्रविभक्तं नानाविभागेनावस्थितं कृत्स्नं जगद्देवदेवस्य शरीरे तदवयवत्वेनैकत्रैव पृथक्पृथगवस्थितं तदा पाण्डवोऽर्जुनोऽपश्यत् ॥ १३ ॥
म०टी०-एवमद्भुतदर्शनेऽप्यर्जुनो न बिभयांचकार, नापि नेत्रे संचचार, नापि संभ्रमात्कर्तव्यं विसस्मार, नापि तस्माद्देशादपसतार, किं त्वतिधीरत्वात्तत्कालोचितमेव व्यवहार महति चित्तक्षोभेऽपीत्याह-
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ॥ |
ततस्तद्दर्शनादनन्तरं विस्मयेनाद्भुतदर्शनप्रभावेनालौकिकचित्तचमत्कारविशेषेणाऽऽविष्टो व्याप्तः । अत एव दृष्टरोमा पुलकितः सन्स प्रख्यातमहादेवसङ्ग्रामादिप्रभावो धनंजयो युधिष्ठिरराजसूय उत्तरगोग्रहे च सर्वा[१]त्राज्ञो जित्वा धनमाहृतवानिति प्रथितमहापराक्रमोऽतिधीरः साक्षादाग्निरिति वा महातेजस्वित्वात् , देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलग्नेन प्रणम्य प्रकर्षेण भक्तिश्रद्धातिशयेन नत्वा नमस्कृत्य कृताञ्जलिः संपुटीकृतहस्तयुगः सन्नभाषतोक्तवान् । अत्र विस्मयाख्यस्थायिभावस्यार्जुनगतस्याऽऽलम्बनविभावेन भगवता विश्वरूपेणोद्दीपनविभावेनासकृत्तदर्शनेनानुभावेन सात्त्विकरोमहर्षेण नमस्कारेणाञ्जलिकरणेन[२] च व्यभिचारिणा चानुभावाक्षिप्तेन[३] वा धृतिमतिहर्षवितर्कादिना परिपोषात्सवासनानां श्रोतॄणां तादृशश्चित्तचमत्कारोऽपि तद्भेदानध्यवसायात्परिपोषं गतः परमानन्दास्वादरूपेणाद्भुतरसो भवतीति सूचितम् ॥ १४ ॥