पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
[अ० ११ क्ष्लो०१०-१२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ॥
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १०॥

 अनेकानि वक्त्राणि नयनानि च यस्मिन्रूपे, अनेकानामद्भुतानां विस्मयहेतूनां दर्शनं यस्मिन् , अनेकानि दिव्यान्याभरणानि भूषणानि यस्मिन् , दिव्यान्यनेकान्युद्यतान्यायुधानि अस्त्राणि यस्मिंस्तत्तथारूपम् ॥ १० ॥

 श्री०टी०-कथंभूतं तदित्यत आह-अनेकेति । अनेकानि वक्राणि नयनानि च यस्मिंस्तत् । अनेकानामद्भुतानां दर्शन यस्मिंस्तत् । अनेकानि दिव्याभरणानि यस्मिंस्तत् । दिव्यान्यनेकानि उद्यतानि आयुधानि च यस्मिंस्तत् ॥ १० ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥

 म० टी०-दिव्यानि माल्यानि पुष्पमयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च धियन्ते येन तद्दिव्यमाल्याम्बरधरं, दिव्यो गन्धोऽस्येति दिव्यगन्धस्तदनुलेपनं यस्य तत्, सर्वाश्चर्यमयमनेकाद्भुतप्रचुरं, देवं द्योतनात्मकम् , अनन्तमपरिच्छिन्नं, विश्वतः सर्वतो मुखानि यस्मिंस्तद्रूपं दर्शयामासेति पूर्वेण संबन्धः । अर्जुनो ददर्शेत्यध्याहारो वा ॥ ११ ॥

 श्री०टी०-किं च-दिव्येति । दिव्यानि माल्यान्यम्बराणि च धारयतीति तथा । दिव्यो गन्धो यस्य तादृशमनुलेपनं यस्य तत् । सर्वाश्चर्यमयमनेकाश्चर्यप्रायम् । देवं द्योतनात्मकम् । अनन्तमपरिच्छिन्नम् । विश्वतः सर्वतो मुखानि यस्मिंस्तत् ॥११॥

 म० टी०-देवमित्युक्तं विवृणोति-

दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता ॥
यदि भाः सदृशी सा स्यादासस्तस्य महात्मनः॥१२॥

 दिवि अन्तरिक्षे सूर्याणां सहस्रस्यापरिमितसूर्यसमूहस्य युगपदुदितस्य युगपदुत्थिता भाः प्रभा यदि भवेत्तदा सा तस्य महात्मनो विश्वरूपस्य भासो दीप्तेः सदृशी तुल्या यदि स्याद्यदि वा न स्यात्ततोऽपि नूनं विश्वरूपस्यैव भा अतिरिच्यतेत्यहं मन्ये, अन्या तूपमा नास्त्येवेत्यर्थः । अत्राविद्यमानाध्यवसायात्तदभावेनोपमाभावपरादभूतोपमारूपेयमतिशयोक्तिरुत्प्रेक्षां व्यञ्जयन्ती सर्वथा निरुपमत्वमेव व्यनक्ति उभौ यदि व्योम्नि पृथक्प्रवाहावित्यादिवत् ॥ १२ ॥

 श्री० टी०---विश्वरूपदीप्तेर्निरुपमत्वमाह-दिवीति । दिव्याकाशे सूर्यसहस्रस्य युगपदुत्थितस्य यदि युगपदुत्थिता भाः प्रभा भवेत्तर्हि सा तदा महात्मनो विश्वरू-