पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १०क्ष्लो०३०-३२]
३१५
श्रीमद्भगवद्गीता।


 म०टी०-नागानां जातिभेदानां मध्ये तेषां राजाऽनन्तश्च शेषाख्योऽहमस्मि । यादसा जलचराणां मध्ये तेषां राजा वरुणोऽहमस्मि । पितृणां मध्येऽर्यमा नाम पितृराजश्चाहमस्मि । संयमतां संयम धर्माधर्मफलदानेनानुग्रहं निग्रहं च कुर्वतां मध्ये यमोऽहमस्मि ॥ २९ ॥

 श्री० टी०-अनन्त इति । नागानां निर्विषाणां राजाऽनन्तः शेषोऽस्मि । यादसां जलचराणां राजा वरुणोऽहमस्मि पितॄणां राजाऽर्यमाऽस्मि । संयमतां नियमन कुर्वतां मध्ये यमोऽहमस्मि ॥ २९ ॥

प्रह्लादश्वास्मि दैत्यानां कालः कलयतामहम् ॥
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३०॥

 म०टी०-दैत्यानां दितिवंश्यानां मध्ये प्रकर्षेण ह्लादयत्यानन्दयति परमसात्त्विकत्वेन सर्वानिति प्रह्लादश्वास्मि । कलयतां संख्यानं गणनं कुर्वतां मध्ये कालोऽहम् । मृगेन्द्रः सिंहो मृगाणां पशूनां मध्येऽहम् । वैनतेयश्च पक्षिणां विनतापुत्रो गरुडः ॥३०॥

 श्री०टी०- प्रह्लाद इति । दैत्यानां राजा प्रह्लादोऽस्मि । कलयतां वशीकुर्वतां गणयतां वा मध्ये कालोऽहम् । मृगेन्द्रः सिंहः। पक्षिणां मध्ये वैनतेयो गरुडोऽस्मि॥३०॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥३१॥

 म०. टी०.-पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुरहमस्मि । शस्त्रभृतां शस्त्रधारिणां युद्धकुशलानां मध्ये रामो दाशरथिरखिलराक्षसकुलक्षयकरः परमवीरोऽहमस्मि । साक्षात्स्वरूपस्याप्यनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवोऽस्मीतिवदत्र पाठ इति प्रागुक्तम् । झषाणां मत्स्यानां मध्ये मकरो नाम तज्जातिविशेषः । स्रोतसां वेगेन चलज्जलानां नदीनां मध्ये सर्वनदीश्रेष्ठा जाह्नवी गङ्गाऽहमस्मि ॥ ३१ ॥

 श्री०टी०-पवन इति । पवतां पावयितॄणां वेगवतां वा मध्ये वायुरस्मि । शस्त्रभृतां वीराणां रामो दाशरथिः । यद्वा परशुरामः । झपाणां मत्स्यानां मध्ये मकरो मत्स्यविशेषोऽहम् । स्रोतसां प्रवाहोदकानां मध्ये भागीरथी ॥ ३१ ॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ॥
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२॥

 म०टी०-सर्गाणामचेतनसृष्टीनामादिरन्तश्च मध्यं चोत्पत्तिस्थितिलया अहमेव हेऽर्जुन ! भूतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानामेवाऽऽदिरन्तश्च मध्यं चेत्युक्तमु- पक्रमे, इह त्वचेतनसर्गाणामिति न पौनरुक्त्यम् । विद्यानां मध्येऽध्यात्मविद्या मोक्ष-