पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
[अ० १० क्ष्लो०२७-२९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म०टी०-सर्वेषां वृक्षाणां वनस्पतीनामन्येषां च । देवा एव सन्तो ये मन्त्रदर्शित्वेन ऋषित्वं प्राप्तास्ते देवर्षयस्तेषां मध्ये नारदोऽहमस्मि । गन्धर्वाणां गानधर्मणां देवगायकानां मध्ये चित्ररथोऽहमस्मि । सिद्धानां जन्मनैव विना प्रयत्नं धर्मज्ञानवैराग्यैश्वातिशयं प्राप्तानामधिगतपरमार्थानां मध्ये कपिलो मुनिरहम् ॥ २६ ॥

 श्री० टी०-अश्वत्थ इति । देवा एव सन्तो मन्त्रदर्शनेन य ऋषित्वं प्राप्तास्तेषां मध्ये नारदोऽस्मि । सिद्धानामुत्पत्तित एवाधिगतपरमार्थानां मध्ये कपिलाख्यो मुनिरस्मि ॥ २६ ॥

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ॥
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

 म०टी०-अश्वानां मध्य उच्चैःश्रवसममृतमथनोद्भवमश्वं मां विद्धि । ऐरावतं गजममृतमथनोद्भवं गजेन्द्राणां मध्ये मां विद्धि । नराणां च मध्ये नराधिपं राजानं मां विद्धीत्यनुषज्यते ॥ २७ ॥

 श्री० टी०-उच्चैःश्रवसमिति । अमृतार्थ क्षीराब्धिमथन उद्भूतमुच्चैःश्रवसं नामा[१] क्ष्वं मद्विभूतिं विद्धि । अमृतोद्भवमित्येतदैरावतेऽपि संवध्यते । नराधिपं राजानं मां विद्धि ॥ २७ ॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ॥
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

 म०. टी०.-आयुधानामस्त्राणां मध्ये वज्रं दधीचेरस्थिसंभवमस्त्रमहमस्मि । धेनूनां दोग्ध्रीणां मध्ये कामं दोग्धिति कामधुक, समुद्रमथनोद्भवा वसिष्ठस्य कामधेनुरहमस्मि । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्यर्थो यः कंदर्पः कामः सोऽहमस्मि । चकारस्त्वर्थो रतिमानहेतुकामव्यावृत्त्यर्थः । सर्पाश्च नागाश्च जातिभेदाद्भिद्यन्ते । तत्र सर्पाणां मध्ये तेषां राजा वासुकिरहमस्मि ॥ २८ ॥

 श्री०. टी०-आयुधानामिति । आयुधानां मध्ये वज्रम्। कामान्दोग्धीति कामधुक् । प्रजनः प्रजोत्पत्तिहेतुः कंदर्पः कामोऽस्मि, न केवलं संभोगप्रधानः कामो मद्विभूतिः, अशास्त्रीयत्वात् । सर्पाणां सविषाणां राजा वासुकिरस्मि ॥ २८ ॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ॥
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥


  1. ज्ञ. क्ष्व सप्तमुखं मं ।