भूतानामाशयेष्वन्तःकरणेषु सर्वज्ञत्वादिगुणैनियन्तृत्वेनावस्थितः परमात्माऽहम् । आदिजन्म, मध्य स्थितिः, अन्तः संहारः, सर्वभूतानां जन्मादिहेतुश्चाहमेवेत्यर्थः ॥ २० ॥
म०टी०-एतदशक्तेन बाह्यानि ध्यानानि कार्याणीत्याह यावदध्यायसमाप्ति-
आदित्यानामहं विष्णुर्ज्यॊतिषां रविरंशुमान् ॥ |
आदित्यानां द्वादशानां मध्ये विष्णुर्विष्णुनामाऽऽदित्योऽहं वामनावतारो वा। ज्योतिषां प्रकाशकानां मध्येऽहं रविरंशुमान्विश्वव्यापी प्रकाशकः । मरुतां सप्तसप्तकानां मध्ये मरीचिनामाऽहं, नक्षत्राणामधिपतिरहं शशी चन्द्रमाः । निर्धारणे षष्ठी। अत्र प्रायेण निर्धारणे षष्ठी । क्वचित्संबन्धेऽपि । यथा भूतानामस्मि चेतनेत्यादौ । वामनरामादयश्चावताराः सर्वैश्वर्यशालिनोऽप्यनेन रूपेण ध्यानविवक्षया विभूतिषु पठ्यन्ते । वृष्णीनां वासुदेवोऽस्मीति तेन रूपेण ध्यानविवक्षया स्वस्यापि स्वविभूतिमध्ये पाठवत् । अतः परं च प्रायेणायमध्यायः स्पष्टार्थ इति क्वचित्किचिद्व्याख्यास्यामः ॥ २१ ॥
श्री० टी-इदानीं विभूतीः कथयति आदित्यानामित्यादिना यावदध्यायसमाप्ति--आदित्यानां द्वादशानां मध्ये विष्णुर्वामनोऽहम् । ज्योतिषां प्रकाशकानां मध्येऽशुभान्विश्वव्यापकरश्मियुक्तो रविः सूर्योऽहम् । म[१]रुतां देव[२]विशेषाणां मध्ये मरीचिर्नामाहमस्मि । यद्वा सप्त मरुद्गणा[३] वायवस्तेषां [४]मध्य [५]इति । ते च-आवहः प्रवहो विवहः परावह उद्वहः संवहः परि[६]वह इति मरुद्गणाः(१)। नक्षत्राणां मध्ये चन्द्रोऽहम् । अत्र च-आदित्यानामहं विष्णुरित्यादिषु प्रायशो निर्धारणे षष्ठी । क्वचिच्च भूतानामस्मि चेतनेत्यादिषु संबन्धे षष्ठी । तच्च तत्र तत्रैव दर्शयिष्यामः । विष्णुरि[७]त्याद्यवतारेष्वपि प्रभावातिशयमात्रविवक्षया विभूतित्वेन निर्दिश्यते । अतः परं चाध्यायस्य स्पष्टार्थत्वेऽपि क्वचित्किंचिद्व्याख्यास्यामः ॥२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ॥ |
म०टी०-चतुर्णा वेदानां मध्ये गानमाधुर्येणातिरमणीयः सामवेदोऽहमस्मि । वासव इन्द्रः सर्वदेवाधिपतिः । इन्द्रियाणामेकादशानां प्रवर्तकं मनः, भूतानां सर्वप्राणिसंबन्धिनां परिणामानां मध्ये चिदभिव्यञ्जिका बुद्धेर्वृत्तिश्चेतनाऽहमस्मि ॥ २२ ॥