पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १०क्ष्लो०१९-२०]
३११
श्रीमद्भगवद्गीता।

भ्युदयनिःश्रेयसप्रयोजनं याच्यस इति हे जनार्दन । अतो ममापि याच्या त्वय्युचितैव । उक्तस्य पुनः कथनं कुतो याचसे तत्राऽऽह-तृप्तिरलंप्रत्ययेनेच्छाविच्छित्तिर्नास्ति हि यस्माच्छृण्वतः श्रवणेन पिबतस्त्वद्वाक्यममृतममृतवत्पदे पदे स्वादु स्वादु । अत्र त्वद्वाक्यमित्यनुक्तेरपह्नुत्यतिशयोक्तिरूपकसंकरोऽयं माधुर्यातिशयानुभवेनोत्कण्ठातिशयं व्यनक्ति ॥ १८ ॥

 श्री० टी०-तदेवं बहिर्मुखेऽपि चित्ते तत्र तत्र विभूतिभेदेन त्वचिन्तैव यथा भवेत्तथा विस्तरेण कथयेत्याह-विस्तरेणेति । आत्मनस्तव योग सर्वज्ञत्वसर्वशक्तित्वादिलक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय । हि यस्मात्त्वद्वाक्यममृतरूपं शृण्वतो मम तृप्तिरलंबुद्धिर्नास्ति ॥ १८ ॥

 म०टी०-अत्रोत्तरम्-

श्रीभगवानुवाच-
 हन्त ते कथयिष्यामि दिव्या द्यात्मविभूतयः॥
 प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१९॥

 हन्तेत्यनुमतौ, यत्त्वया प्रार्थितं तत्करिष्यामि मा व्याकुलो भूरित्यर्जुनं समाश्वास्य तदेव कर्तुमारमते । कथयिष्यामि प्राधान्यतस्ता विभूतीर्या दिव्या हि प्रसिद्धा आत्मनो ममासाधारणा विभूतयो हे कुरुश्रेष्ठ, विस्तरेण तु कथनमशक्यं, यतो नास्त्यन्तो विस्तरस्य मे विभूतीनाम् । अतः प्रधानभूताः काश्चिदेव विभूतीर्वक्ष्यामीत्यर्थः ॥ १९ ॥

 श्री० टी०-एवं प्रार्थितः सञ्श्रीभगवानुवाच हन्तेति । हन्तेत्यनुकम्पासंबोधने। दिव्या या मम विभूतयस्ताः प्राधान्येन ते तुभ्यं कथयिष्यामि । यतोऽवान्तरविभूतिविस्तरस्य मदीयस्यान्तो नास्ति अतः प्रधानभूताः कतिचिद्वर्णयिष्यामि ॥ १९ ॥

 म०टी०-तत्र प्रथमं तावन्मुख्यं चिन्तनीयं शृणु-

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ॥
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

 सर्वभूतानामाशये त्दृद्देशेऽन्तर्यामिरूपेण प्रत्यगात्मरूपेण च स्थित आत्मा चैतन्यानन्दधनस्त्वयाऽहं वासुदेव एवेति ध्येयः, हे गुडाकेश जितनिद्रेति ध्यानसामर्थ्य सूचयति । एवं ध्यानासामर्थ्ये तु वक्ष्यमाणानि ध्यानानि कार्याणि । तत्राप्यादौ ध्येयमाह--अहमेवाऽऽदिश्चोत्पत्तिर्भूतानां प्राणिनां चेतनत्वेन लोके व्यवह्रियमाणानां मध्यं च स्थितिरन्तश्च नाशः सर्वचेतनवर्गाणामुत्पत्तिस्थितिनाशरूपेण तत्कारणरूपेण चाहमेव ध्येय इत्यर्थः ॥ २० ॥

 श्री० टी०-तत्र प्रथममैश्वरं रूपं कथयति-अहमिति । हे गुडाकेश सर्वेषां