पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
[अ० १० क्ष्लो०८-९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


विकम्पेनाप्रचलितेन योगेन सम्यग्ज्ञानस्थैर्यलक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥ ७ ॥

 श्री०टी०~-यथोक्तविभूत्यादितत्त्वज्ञानस्य फलमाह-एतामिति । एतां भृग्वा- दिलक्षणां मम विभूतिं योगं चैश्चर्यलक्षणं तत्त्वतो यो वेत्ति सोऽविकम्पेन निःसंशयेन योगेन सम्यग्दर्शनेन युक्तो भवति । नास्त्यत्र संशयः ॥ ७ ॥

 'म० टी०-यादृशेन विभूतियोगयोर्ज्ञानेनाविकम्पयोगप्राप्तिस्तदर्शयति चतुर्भिः-

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ॥
इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ ८॥

 अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिकारणमुपादानं निमित्तं च स्थितिनाशादि च सर्व मत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्वशक्तिना प्रेर्यमाणं स्वस्वमर्यादामनतिक्रम्य सर्वं जगत्प्रवर्तते चेष्टत इति वा । इत्येवं मत्वा बुधा विवेकेनावगततत्त्वा भावेन परमार्थतत्त्वग्रहणरूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥ ८॥

 श्री० टी०-यथा च विभूतियोगयोर्ज्ञानेन सम्यग्ज्ञानावाप्तिस्तद्दर्शयति अहमित्यादिचतुर्भि:-~-अहं सर्वस्य जगतः प्रभवो भृग्वादिरूपविभूतिद्वारेणोत्पत्तिहेतुः । मत्त एव चास्य सर्वस्य बुद्धिर्ज्ञानमसंमोह इत्यादि सर्व प्रवर्तत इति एवं मत्वाऽवबुध्य बुधा विवेकिनो भावसमन्विताः प्रीतियुक्ता मां भजन्ते ॥ ८ ॥

 म०टी०-प्रेमपूर्वकं भजनमेव विवृणोति-

मच्चित्ता मद्तप्राणा बोधयन्तः परस्परम् ॥
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९॥

 मयि भगवति चित्तं येषां ते मच्चित्ताः । तथा मद्ता मां प्राप्ताः प्राणाश्चक्षुरादयो येषां ते मद्तप्राणा मद्भजननिमित्तचक्षुरादिव्यापारा मय्युपसंहृतसर्वकरणा वा । अथवा मद्गतप्राणा मद्भजनार्थजीवना मद्भजनातिरिक्तप्रयोजनशून्यजीवना इति यावत् । विद्धद्गोष्ठीषु 'परस्परमन्योन्यं श्रुतिभिर्युक्तिभिश्च मामेव बोधयन्तस्तत्त्वबुभुत्सुकथया ज्ञापयन्तः । तथा स्वशिष्येभ्यश्च मामेव कथयन्त उपदिशन्तश्च । मयि चित्तार्पणं तथा बाह्यकरणार्पणं तथा जीवनार्पणमेवं समानामन्योन्यं मद्बोधनं स्वन्यूनेभ्यश्च मदुपदेशनमित्येवंरूपं यन्मद्भजनं तेनैव तुष्यन्ति च, एतावतैव लब्धसर्वार्था वयमलमन्येन लब्धव्येनेत्येवंप्रत्ययरूपं संतोषं प्राप्नुवन्ति च । तेन संतोषेण रमन्ति च रमन्ते च प्रियसंगमेनेवोत्तमं सुखमनुभवन्ति च । तदुक्तं पतञ्जलिना--" संतोषादनुत्तमः सुखलाभः " इति । उक्तं च पुराणे-