पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[भ०१०क्ष्लो०६-७]
३०५
श्रीमद्भगवद्गीता।


सत्पात्रेऽर्पणम् , यशः सत्कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर्ज्ञानमित्यादयस्तद्विपरीताश्चाबुद्ध्यादयो नानाविधा भावाः प्राणिनां मत्तः सकाशादेव भवन्ति ॥ ५ ॥

 म० टी०-इतश्चैतदेवम् -

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ॥
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥

 महर्षयो वेदतदर्थद्रष्टारः सर्वज्ञा विद्यासंप्रदायप्रवर्तका भृग्वाद्याः सप्त पूर्वे सर्गाद्यकालाविभूताः । तथा च पुराणं-

भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
 वसिष्ठं च महातेजाः सोऽसृजन्मनसा सुतान् ।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः " इति ॥

 तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृग्वाद्याः, तेभ्योऽपि पूर्व प्रथमाश्चत्वारः सनकाद्या महर्षयः । मनवस्तथा स्वायंभुवाद्याश्चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्भावा मच्चिन्तनपरा मद्भावनावशादाविर्भूतमदीयज्ञानेश्वर्यशक्तय इत्यर्थः । मानसा मनसः संकल्पादेवोत्पन्ना न तु योनिजाः । अतो विशुद्धजन्मत्वेन सर्वप्राणिश्रेष्ठा मत्त एव हिरण्यगर्भात्मनो जाताः सर्गाद्यकाले प्रादुर्भूताः । येषां महर्षीणां सप्तानां भृग्वादीनां चतुर्णां च सनकादीनां मनूनां च चतुर्दशानामस्मिल्लोके जन्मना च विद्यया च संततिभूता इमा ब्राह्मणाद्याः सर्वाः प्रजाः ॥६॥

 श्री०टी०-किं च-महर्षय इति । सप्त महर्षयो भृग्वादयः "सप्त [१]ब्रह्माण इत्येते पुराणे निश्चयं गताः" इत्यादिपुराणप्रसिद्धाः। तेभ्योऽपि पूर्वेऽन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायंभुवादयो मद्भावा मदीयो भावः प्रभावो येषु ते हिरण्यगर्भात्मनो ममैव मनसः संकल्पमात्राज्जाताः । प्रभावमेवाऽऽह-येषामिति । येषां भृग्वादीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्रपौत्रादिरूपाः शिष्यप्रशिष्यादिरूपाश्च प्रजा जाताः प्रवर्तन्ते ॥ ६ ॥

 म०टी०-एवं सोपाधिकस्य भगवतः प्रभावमुक्त्वा तज्ज्ञानफलमाह-

एतां विभूति योगं च मम यो वेत्ति तत्वतः ॥
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

 एता प्रागुक्ता बुद्ध्यादिमहर्ष्यादिरूपां विभूतिं विविधभावं तत्तद्रूपेणावस्थितिं योगं च तत्तदर्थनिर्माणसामर्थ्यं परमैश्वर्यमिति यावत् । मम यो वेत्ति तत्त्वतो यथावत्सोऽ-


  1. क.ग. च. झ. ज. ब्राह्मणा।