पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
[अ० १० क्ष्लो०४-५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ॥
सुखं दुःखं भवो भावो भयं चाभयमेव च ॥४॥

 बुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्थ्यं, ज्ञानमात्मानात्मसर्वपदार्थावबोधः, असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु कर्तव्येषु वाऽव्याकुलतया विवेकेन प्रवृत्तिः, क्षमाऽऽक्रुष्टस्य ताडितस्य वा निर्विकारचित्तता, सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव भाषणं, दमो बाह्येन्द्रियाणां स्वविषयेभ्यो निवृत्तिः, शमोऽन्तःकर[१]णस्य[२] सा, सुखं धर्मासाधारणकारणकमनुकूलवेदनीयं, दुःखमधर्मासाधारणकारणकं प्रतीकूलवेदनीयं, भव उत्पत्तिः, भावः सत्ताऽभावोऽसत्तेति वा । भयं च त्रासस्तद्विपरीतमभयम् । एव च, एकश्चकार उक्तसमुच्च. यार्थः । अपरोऽनुक्ताबुद्धयज्ञानादिसमुच्चयार्थः । एवेत्येते सर्वलोकप्रसिद्धा एवेत्यर्थः । मत्त एव भवन्तीत्युत्तरेणान्वयः ॥ ४ ॥

 श्री०टी०-लोकमहेश्वरतामेव स्फुटयति बुद्धिरिति त्रिभिः-बुद्धिः सारासारविवेकनैपुण्यम् , ज्ञानमात्मविषयम् , असंमोहो व्याकुलत्वाभावः, क्षमा सहिष्णुत्वम् , सत्यं यथार्थभाषणम् , दमो बाह्येन्द्रियसंयमः, शमोऽन्तःकरणसंयमः, सुखमनुकूलसंवेदनीयम् , दुःखं तद्विपरीतं, भव उद्भवः, अमावस्तद्विपरीतः, भयं त्रासः, अभयं तद्विपरीतम् । अस्य श्लोकस्योत्तरेण मत्त एव भवन्तीत्यनेनान्वयः ॥ ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः॥
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५॥

 म०टी०-अहिंसा प्राणिनां पीडाया निवृत्तिः । समता चित्तस्य रागद्वेषादिरहितावस्था । तुष्टिर्भोग्येष्वेतावताऽलमिति बुद्धिः । तपः शास्त्रीयमार्गेण कायेन्द्रियशोषणम् । दानं देशे काले श्रद्धया यथाशक्त्यर्थानां सत्पात्रे समर्पणम् । यशो धर्मनिमित्ता [३]लोकक्ष्ला[४]घारूपा[५] प्रसिद्धिः । अयशस्त्वधर्मनिमित्ता [६]लोकनिन्दारूपा[७] प्रसिद्धिः । एते बुद्धयादयो भावाः कार्यविशेषाः सकारणकाः पृथग्विधा धर्माधर्मादिसाधनवैचित्र्येण नानाविधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवन्ति नान्यस्मात्तस्मात्किं वाच्यं मम लोकमहेश्वरत्वमित्यर्थः ॥ ५ ॥

 श्री०टी०-किंच-अहिंसेति । अहिंसा परपीडानिवृत्तिः, समता रागद्वेषादिराहि[८]त्यं, तुष्टिर्दैवलब्धेन संतोषः, तपः शारीरादि वक्ष्यमाणम् , दानं न्यायाजितधनादेः


  1. ख. 'रणान्यतो निवृत्तिः । सु ।
  2. ञ. 'स्य शमता । सु ।
  3. घ. लोके गुणकथनरू ।
  4. छ. 'घा गुणकथनरू ।
  5. ग. झ. 'पा गुणकथनरूपा वा लोकप्र ।
  6. घ. दोषकथनरूपा ।
  7. ग. झ.पा दोषकथनरूपा पा लोकप्र ।
  8. क. अ. सं मित्रामित्रतुल्यता च तु।