पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९क्ष्लो ०३४]
३०१
श्रीमद्भगवद्गीता।


यतो मद्भक्तेरीदृशो महिमाऽतो महता प्रयत्नेनेमं लोकं सर्वपुरुषार्थसाधनयोग्यमतिदुर्लभं च मनुष्यदेहमनित्यमाशुविनाशिनमसुखं गर्भवासाद्यनेकदुःखबहुलं लब्ध्वा यावदयं न नश्यति तावदतिशीघ्रमेव भजस्व मां शरणमाश्रयस्व, अनित्यत्वादसुखत्वाञ्चास्य विलम्बं सुखार्थमुद्यमं च मा कार्षीस्त्वं च राजर्षिरतो मद्भजनेनाऽऽत्मानं सफलं कुरु । अन्यथा ह्येतादृशं जन्म निष्फलमेव ते स्यादित्यर्थः ॥ ३३ ॥

 श्री०टी०-यदैवं तदा सत्कुलाः सदाचाराश्च मद्भक्ताः परां गतिं यान्तीति किं वक्तव्यमित्याह-किमिति । पुण्याः सुकृतिनो ब्राह्मणाः । तथा राजानश्च त ऋषयश्च क्षत्रिया एवंभूताः परां गतिं यान्तीति किं पुनर्वक्त[१]व्यम् । अतस्त्वमिमं राजर्षिरूपं लोकं देहं प्राप्य लब्ध्वा मां भजस्व । किंच, अनित्यमध्रुवमसुखं सुखरहितं च लोकं देह प्राप्यानित्यत्वाद्विलम्बमकुर्वन्नसुखत्वाच्च सुखार्थोद्यमं हित्वा मामेव भजस्वेत्यर्थः ॥ ३३ ॥

 म०टी०-भजनप्रकारं दर्शयन्नपसंहरति-

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्यारा-

जगुह्ययोगो नाम नवमोऽध्यायः ॥ ९ ॥

 राजभक्तस्यापि राजभृत्यस्य पुत्रादौ मनस्तथा स तन्मना अपि न तद्भक्त इत्यत उक्तं मन्मना भव मद्भक्त इति । तथा मद्याजी मत्पूजनशीलो मां नमस्कुरु मनोवाक्कायैः । एवमेभिः प्रकारैर्मत्परायणो मदेकशरणः सन्नात्मानमन्तःकरणं युक्त्वा मयि समाधाय मामेव परमानन्दघनं स्वप्रकाशं सर्वोपद्रवशून्यमभयमेष्यसि प्राप्स्यसि ॥३४॥

श्रीगोविन्दपदारविन्दमकरन्दास्वादशुद्धाशयाः
 संसाराम्बुधिमुत्तरन्ति सहसा पश्यन्ति पूर्ण महः ॥
वेदान्तैरवधारयन्ति परमं श्रेयस्त्यजन्ति भ्रमं
 द्वैतं स्वप्नसमं विदन्ति विमलां विन्दन्ति चाऽऽनन्दताम् ॥ १॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-

सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन

राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥


  1. क. व्यमित्यर्थः । अ ।