पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
[अ० ९ क्ष्लो० ३२-३३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


भवतीति । दृष्टान्ताश्चाजामिलप्रह्लादधुवगजेन्द्रादयः प्रसिद्धा एव । शास्त्रं च-"न वासुदेवभक्तानामशुभं विद्यते क्वचित् " इति ॥ ३१ ॥

 श्री० टी०-ननु कथं समीचीनाध्यवसायमात्रेण साधुमन्तव्यस्तत्राऽऽह- क्षिप्रमिति । दुराचारोअपि मां भजञ्शीघ्रं धर्माचित्तो भवति । ततश्च शश्वच्छान्तिं शाश्वतीमुपशान्तिं[१] परमेश्वरनिष्ठां नितरां गच्छति प्राप्नोति । कुतर्ककर्कशवादिनो नैतन्मन्येन्नितिशङ्काव्याकुलम[२]र्जुनं प्रोत्साहयति हे कौन्तेय पटहकाहलादिमहाघोषपूर्वकं विवदमानानां सभां गत्वा बाहुमुक्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथं, मे परमेश्वरस्य भक्तः सुदुराचारोऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश्च ते त्वत्प्रौढिविजृम्भविध्वंसितकुतर्का निःसंशयं त्वामेव गुरुत्वे. नाऽऽश्रयेरन् ॥ ३१ ॥

 म०. टी०-एवमागन्तुकदोषेण दुष्टानां भगवद्भक्तिप्रभावान्निस्तारमुक्त्वा स्वाभाविकदोषेण दुष्टानामपि तमाह-

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ॥
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥

हि निश्चितं हे पार्थ मां व्यपाश्रित्य शरणमागत्य येऽपि स्युः पापयोनयोऽन्त्यजास्तिर्यञ्चो वा जातिदोषेण दुष्टाः। तथा वेदाध्ययनादिशून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादिमात्ररताः । तथा शूद्वा जातितोऽध्ययनाद्यभावेन च परमगत्ययोग्यास्तेऽपि यान्ति परां गतिम् । अपिशब्दात्मागुक्तदुराचारा अपि ॥ ३२ ॥

 श्री०टी०-आचारभ्रष्टं मद्भक्तिः पवित्री करोतीति किमत्र चित्रम् , यतो मद्भक्तिर्दुष्कुलानप्यनधिकारिणोऽपि संसारान्मोचयतीत्याह-मां हीति । येऽपि पापयोनयः स्युनिकृष्टजन्मानोऽन्त्यजादयो भवेयुः। येऽपि वैश्याः केवलं कृष्यादिनिरताः स्त्रियः शूद्रादयश्चाध्ययनादिरहितास्तेऽपि मां व्यपाश्रित्य संसेव्य परां गतिं यान्ति हि निश्चितम् ॥ ३२॥

 म० टी०-एवं चेत्-

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥

 पुण्याः सदाचारा उत्तमयोनयश्च ब्राह्मणास्तथा राजर्षयः सूक्ष्मवस्तुविवेकिनः क्षत्रिया मम भक्ताः परां गति यान्तीति किं पुनर्वाच्यमत्र कस्यचिदपि संदेहाभावादित्यर्थः ।


  1. क.न्ति चित्तोपप्लवोपरमरूपां प'।
  2. क. अ. 'लचित्तम ।