पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९क्ष्लो०३०-३१]
२९९
श्रीमद्भगवद्गीता।


 क्ष्री० टी०-यदि भक्तेभ्य एव मोक्षं ददासि नाभक्तेभ्यस्तर्हि तवापि किं रागद्वेषादिकृतं वैषम्यमस्ति नेत्याह-सम इति । समोऽहं सर्वेष्वपि भूतेषु अतो मे मम प्रियश्च द्वेष्यश्च नास्त्येव । एवं सत्यपि ये मां भजन्ति ते भक्ता मयि वर्तन्ते । अहमपि तेषु अनुग्राहकतया वर्ते । अयं भावः-यथाऽग्नेः स्वसेवकष्वेव तमाशीतादिदुःखमपाकुर्वतोऽपि न वैषम्यं, यथा वा कल्पवृक्षस्य, तथैव भक्तपक्षपातिनोऽपि मम नास्त्येव वैषम्यं किं तु मद्भक्तेरेवायं महिमेति ॥ २९ ॥

 म०. टी०.-किं च मद्भक्तेरेवायं महिमा यत्समेऽपि वैषम्यमापादयति, शृणु तन्महिमानम्-

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ॥
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥३०॥

 यः कश्चित्सुदुराचारोऽपि चेदनामिलादिरिवानन्यभाक्सन्मां भजते कुतश्विद्भाग्योदयात्सेवते स प्रागसाधुरपि साधुरेव मन्तव्यः। हि यस्मात्सम्यग्व्यवसितः साधुनिश्चयवान्सः ॥ ३०॥

 श्री०टी०-अपि च मद्भक्तेरवितर्क्यः प्रभाव इति दर्शयन्नाह-अपि चेदिति । अत्यन्त दुराचारोऽपि नरो यदि पृथक्त्वेन देवतान्तरभक्तिमकुर्वन्मामेव श्रीनारायणं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः । यतोऽसौ सम्यग्व्यवसितः[१] परमेश्वरभजनेनैव कृतार्थो भविष्यामीति शोभनमध्यवसायं कृतवान् ॥ ३० ॥

 म०टी०-अस्मादेव सम्यग्व्यवसायात्स हित्वा दुराचारताम्-

क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति ॥
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥

 चिरकालमधर्मात्माऽपि मद्भजनमहिम्ना क्षिप्रं शीघ्रमेव भवति धर्मात्मा धर्मानुगतचित्तो दुराचारत्वं झटित्येव त्यक्त्वा सदाचारो भवतीत्यर्थः । किं च शश्वन्नित्यं शान्तिं विषयभोगस्पृहानिवृत्तिं निगच्छति नितरां प्राप्नोत्यतिनिर्वेदात् । कश्चित्त्वद्भक्तः प्रागभ्यस्तं दुराचारत्वमत्यजन्न भवेदपि धर्मात्मा, तथा च स नश्येदेवेति नेत्याह भक्तांनुकम्पापरवशतया कुपित इव भगवान्-नैतदाश्चर्यं मन्वीथा हे कौन्तेय निश्चितमेवेदृशं मद्भक्तेर्माहात्म्यम् । अतो विप्रतिपन्नानां पुरस्तादपि त्वं प्रतिजानीहि सावज्ञं सगर्व च प्रतिज्ञां कुरु न मे वासुदेवस्य भक्तोऽतिदुराचारोऽपि प्राणसंकटमापन्नोऽपि सुदुर्लभमयोग्यः सन्प्रार्थयमानोऽपि अतिमूढोऽशरणोऽपि न प्रणश्यति किं तु कृतार्थ एव


  1. ख, ग. घ. डा, च, छ. ज. श. "तः शो।