पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
[अ०९ क्ष्लो०२६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


एवं देवतान्तराराधनस्य तत्तद्देवतारूपत्वमन्तवत्फलमुक्त्वा भगवदाराधनस्य भगवद्रूपत्वमनन्तं फलमाह-मां भगवन्तं यष्टुं पूजयितुं शीलं येषां ते मद्याजिनः सर्वासु देवतासु भगवद्भावदर्शिनो भगवदाराधनपरायणा मां भगवन्तमेव यान्ति । समानेऽप्यायासे भगवन्तमन्तर्यामिणमनन्तफलदमनाराध्य देवतान्तरमाराध्यान्तवत्फलं यान्तीत्यहो दुर्दैववैभवमज्ञानामित्यभिप्रायः ॥२५ ॥

श्री०टी०-तदेवोपपादयति-यान्तीति । देवेषु इन्द्रादिषु व्रतं नियमो येषां तेऽन्त[१]वतो देवान्यान्ति[२] । पितृषु व्रतं येषां श्राद्धादिक्रियापराणां ते पितॄन्यान्ति । भूतेषु विनायकमातृकादिषु इज्या पूजा येषां ते भूतानि यान्ति। मां यष्टुं शीलं येषां ते मद्याजिनस्ते तु मामेवाक्षयं परमानन्दरूपं नारायणं यान्ति ॥ २५ ॥

 म०टी०--तदेवं देवतान्तराणि परित्यज्यानन्तफलत्वाद्भगवत एवाऽऽराधनं कर्तव्यमतिसुकरत्वाच्चेत्याह-

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥

 पत्रं पुष्पं फलं तोयमन्यद्वाऽनायासलभ्यं यत्किंचिद्वस्तु यः कश्चिदपि नरो मे मह्यमनन्तमहाविभूतिपतये परमेश्वराय भक्त्या "न वासुदेवात्परमस्ति किंचित्" इतिबुद्धिपूर्विकया प्रीत्या प्रयच्छतीश्वराय भृत्यवदुपकल्पयति मत्स्वत्वानास्पदद्रव्याभावात्सर्वस्यापि जगतो मयैवार्जितत्वात् । अतो मदीयमेव सर्वं मह्यमर्पयति जनः । तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्धबुद्धेस्तत्पत्रपुष्पादि तुच्छमपि वस्तु अहं सर्वेश्वरोऽश्नामि अशनवत्प्रीत्या स्वीकृत्य तृष्यामि । अत्र वाच्यस्यात्यन्ततिरस्कारादशनलक्षितेन स्वीकारविशेषेण प्रीत्यतिशयहेतुत्वं व्यज्यते । “न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृष्यन्ति " इति श्रुतेः । कस्मात्तुच्छमाप [३]तदश्नांसि यस्माद्भक्त्युपद्धतं भक्त्या प्रीत्या समर्पितं, तेन प्रीत्या समर्पणं मत्स्वीकारनिमित्तमित्यर्थः । अत्र भक्त्या प्रयच्छतीत्युक्त्वा पुनर्भक्त्युपहृतमिति वद[४]न्नभक्तस्य ब्राह्मणत्वतपस्वित्वादि मत्स्वीकारनिमित्तं न भवतीति परिसंख्यां सूचयति । श्रीदामब्राह्मणानीततण्डुलकणभक्षणवत्प्रीतिविशेषप्रतिबद्धभक्ष्याभक्ष्यविज्ञानो बाल इव मात्राद्यर्पतं पत्रपुष्पादि [५]भक्तार्पितं साक्षादेव भक्षयामीति वा । तेन भक्तिरेव मत्परितोषनिमित्तं न तु देवतान्तरवह्वल्युपहारादि बहुवित्तव्ययायाससाध्यं किंचिदिति देवतान्तरमपहाय मामेव भजेतेत्यभिप्रायः[६] ॥ २६ ॥


  1. ख. ग. घ. च. छ. ज. झ. वन्तो दें।
  2. क. 'न्ति अतः पुनरावर्तन्ते पि ।
  3. ग, घ. च. नामि य ।
  4. ज. "दन्भक्त ।
  5. ख. ङ. छ. न. भक्त्याऽपि'।
  6. ज. यः । अतश्चानायासलम्चैकपत्रपुष्पादानेन भक्तवत्सलो भगवानात्मानं भक्तेभ्यो विक्रीणीत इति । तथा चोक्तम्----- तुलसीदलमात्रेण जलस्य चुलकेन च । विक्रीगीते स्वमात्मानं भफेभ्यो भक्तवत्सल इति ध्वनितम् ॥२६