पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
[अ०९क्ष्लो०२२-२३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२॥

 अन्यो भेददृष्टिविषयो न विद्यते येषां तेऽनन्याः सर्वाद्वैतदर्शिनः सर्वभोगनिःस्पृहाः। अहमेव भगवान्वासुदेवः सर्वात्मा न मद्वयतिरिक्तं किंचिदस्तीति ज्ञात्वा तमेव प्रत्यञ्चं सदा चिन्तयन्तो मां नारायणमात्मत्वेन ये जनाः साधनचतुष्टयसंपन्नाः संन्यासिनः परि सर्वतोऽनवच्छिन्नतया पश्यन्ति ते मदनन्यतया कृतकृत्या एवेति शेषः। अद्वैतदर्शननिष्ठानामत्यन्तनिष्कामाना(णां) तेषां स्वयमप्रयतमानानां कथं योगक्षेमौ स्यातामित्यत आह-तेषां नित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापृतानां देहयात्रामात्रार्थमप्यप्रयतमानानां योगं च क्षेमं च, अलब्धस्य लामं लब्धस्य परिरक्षणं च शरीरस्थित्यर्थं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्वेश्वरः ।

"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् "

 इति युक्तम् । यद्यपि सर्वेषामपि योगक्षेमं वहति भगवांस्तथाऽप्यन्येषां प्रय. त्नमुत्पाद्य तद्वारा वहति ज्ञानिनां तु तदर्थ प्रयत्नमनुत्पाद्य वहतीति विशेषः ॥ २२ ॥

 श्री०टी०-मद्भक्तास्तु मत्प्रसादेन कृतार्था भवन्तीत्याह-अनन्या इति । अनन्या नास्ति मव्ध्यतिरेकेणान्यत्का[१]भ्यं येषां तथाभूता ये जना मां चिन्तयन्तः सेवन्ते तेषां नित्याभियुक्तानां सर्वदा मदेकनिष्ठानां योगं धनादिलाभं क्षेमं च तत्पालनं मोक्षाख्यं च तैरप्रार्थितमप्यहमेव वहामि प्रापयामि ॥ २२ ॥

 म०टी०-नन्वन्या अपि देवतास्त्वमेव त्वद्वयतिरिक्तस्य वस्त्वन्तरस्याभावात् । तथा च देवतान्तरभक्ता अपि त्वामेव भजन्त इति न कोऽपि विशेषः स्यात् , तेन गतागतं कामकामा वसुरुद्रादित्यादिभक्ता लभन्ते । अनन्याश्चिन्तयन्तो मां तु कृतकृत्या इति कथमुक्तं तत्राऽऽह-

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः ॥
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

 यथा मद्भक्ता मामेव यजन्ति तथा येऽन्यदेवतानां वस्वादीनां भक्ता यजन्ते ज्योतिष्टोमादिभिः श्रद्धयाऽऽस्तिक्यबुद्धयाऽन्विताः, तेऽपि मद्भक्ता इव हे कौन्तेय तत्तद्देवतारूपेण स्थितं मामेव यजन्ति पूजयन्ति अविधिपूर्वकमविधिरज्ञानं तत्पूर्वकं सर्वात्मत्वेन मामज्ञात्वा मद्भिन्नत्वेन वस्वादीन्कल्पयित्वा यजन्तीत्यर्थः ॥ २३ ॥

 श्री०टी०-ननु च त्वयतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादिसेविनोऽपि त्वद्भक्ता एवेति कथं ते गतागतं लभेरंस्तत्राऽऽह-येऽपीति । श्रद्धयोपेता भक्ताः


  1. क. 'म्यं भजनीयं देवतान्तरं यें।