पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९क्ष्लो०२]
२९३
श्रीमद्भगवद्गीता।


 श्री०टी०-तदेवमवजानन्ति मां मूढा इत्यादिश्लोकद्वयेन क्षिप्रफलाशया देवतान्तरं भजन्तो मां नाऽऽद्रियन्त इत्यभक्ता दर्शिताः । महात्मानस्तु मां पार्थेत्यादिना च मद्भक्ता उक्ताः । तत्रैकत्वेन पृथक्त्वेन वा परमेश्वरं श्रीवासुदेवं ये न भजन्ति तेषां जन्ममृत्युप्रवाहो दुर्वार इत्याह द्वाभ्याम्-त्रैविद्या मामिति । ऋग्यजुःसामलक्षणास्तिस्रो विद्या येषां ते त्रिविद्याः । त्रिविद्या एव विद्याः । स्वार्थे तद्धितः । तिस्रो विद्या अधीयते जानन्तीति वा त्रैविद्या वेदत्रयोक्तक[१]र्मपरा इत्यर्थः । वेदत्रयविहितैर्यज्ञैर्मामिष्ट्वा ममैव रूपं देवतान्तरमित्यजानन्तोऽपि वस्तुत इन्द्रादिरूपेण मामेवेष्ट्वा संपूज्य यज्ञशेषं सोमं पिबन्तीति सोमपास्तेनैव पूतपापाः शोधितकल्मषाः सन्तः स्वर्गतिं स्वर्गं प्रति गति ये प्रार्थयन्ते ते पुण्यफलरूपं सुरेन्द्रस्य लोकं स्वर्गमासाद्य प्राप्य दिवि स्वर्गे दिव्यानुत्तमान्देवानां भोगानश्नन्ति भुञ्जते ॥ २० ॥

 म०टी०-ततः किमनिष्टमिति तदाह-

ते तं भुक्त्वा स्वर्गलोकं विशालं
 क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥
एवं[२] त्रयीधर्ममनुप्रपन्ना
 गतागतं कामकामा लभन्ते ॥ २१ ॥

  ते सकामास्तं काम्येन पुण्येन प्राप्तं विशालं विस्तीर्ण वर्गलोकं भुक्त्वा तद्भोगजनके पुण्ये क्षीणे सति । तद्देहनाशात्पुनर्देहग्रहणाय मर्त्यलोकं विशन्ति पुनर्गर्भवासादियातना अनुभवन्तीत्यर्थः । पुनः पुनरेवमुक्तप्रकारेण । हिः प्रसिद्ध्यर्थः । त्रैधर्म्यं हौत्राध्वर्यवौद्गात्रधर्मत्रयाहं ज्योतिष्टोमादिकं काम्यं कर्म । त्रयीधर्ममिति पाठेऽपि त्रय्या वेदत्रयेण प्रतिपादितं धर्ममिति स एवार्थः । अनुप्रपन्ना अनादौ संसारे पूर्वप्रतिपत्त्यपेक्षयाऽनुशब्दः, पूर्वप्रतिपत्त्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिपन्नाः, कामकामा दिव्यान्भोगान्कामयमाना एवं गतागतं लभन्ते कर्म कृत्वा स्वर्गं यान्ति तत आगत्य पुनः कर्म कुर्वन्तीत्येवं गर्भवासादियातनाप्रवाहस्तेषामनिशमनुवर्तत इत्यभिप्रायः ॥ २१ ॥

 श्री० टी०- ततश्च-ते तं भुक्त्वेति । ते स्वर्गकामास्तं प्रार्थितं विपुलं स्वर्गलोकं तत्सुखं भुक्त्वा भोगप्रापके पुण्ये क्षीणे सति मर्त्यलोकं विशन्ति । पुनरप्येवमेव वेदत्रय्या विहितं धर्ममनुसृताः कामकामा भोगान्कामयमाना गतागतं यातायातं लभन्ते ॥ २१॥

 म० टी०-निष्कामाः सम्यग्दर्शिनस्तु-


  1. क. घ. अ. मतत्परा।
  2. ख. अ, च. छ. 'वं त्रैधय॑म ।