पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[१०९क्ष्लो ०१८]
२९१
श्रीमद्भगवद्गीता।



 अस्य जगतः सर्वस्य प्राणिजातस्य पिता जनयिता, माता जनयित्री, धाता पोषयिता तत्तत्कर्मफलविधाता वा । पितामहः पितुः पिता, वेद्यं वेदितव्यं वस्तु, पूयतेऽनेनेति पवित्रं पावनं शुद्धिहेतुर्गङ्गास्नानगायत्रीजपादि । वेदितव्ये ब्रह्मणि वेदनसाधनमोंकारः । नियताक्षरपादा, ऋक् । गीतिविशिष्टा सैव साम । सामपदं तु गीतिमात्रस्यैवाभिधायकमित्यन्यत् । गीतिरहितमनियताक्षरं यजुः । एतत्त्रिविधं मन्त्रजातं कर्मों. पयोगि । चकारादथर्वाङ्गिरसोऽपि गृह्यन्ते । एवकारोऽहमेवेत्यवधारणार्थः ॥ १७ ॥

 श्री० टी०-किंच-पितेति । धाता कर्मफलविधाता । वेद्यं ज्ञेयं वस्तु । पवित्रं शोध[१]कम् । ओंकारः प्रणव ऋग्वेदादयो वेदाश्चाहमेव । स्पष्टमन्यत् ॥ १७ ॥

 म०टी०-किं च-

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुत्दृत् ॥
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८॥

 गम्यत इति गतिः कर्मफलं,

ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः " इत्येवं मन्वाद्युक्तम् ॥

 भर्ता पोष्टा सुखसाधनस्यैव दाता । प्रभुः स्वामी मदीयोऽयमिति स्वीकर्ता । साक्षी सर्वप्राणिनां शुभाशुभद्रष्टा । निवसन्त्यस्मिन्निति निवासो भोगस्थानम् । शीर्यते दुःखमस्मिन्निति शरणं प्रपन्नानामार्तिह्रत् । सुहृत्प्रत्युपकारानपेक्षः सन्नुपकारी । प्रभव उत्पत्तिः । प्रलयो विनाशः। स्थानं स्थितिः । यद्वा प्रकर्षण भवन्त्यनेनेति प्रभवः स्रष्टा । प्रकर्षेण लीयन्तेऽनेनेति प्रलयः संहर्ता । तिष्ठन्त्यस्मिन्निति स्थानमाधारः । निधीयते निक्षिप्यते तत्कालभोगायोग्यतया कालान्तरोपभोग्य वस्त्वस्मिन्निति निधानं सूक्ष्मरूपसर्ववस्त्वधिकरणं प्रलयस्थानमिति यावत् । शङ्खपद्मादिनिधिर्वा । बीजमुत्पत्तिकारणम् । अव्ययमविनाशि न तु ब्रीह्यादिवद्विनश्वरम् । तेनानाद्यनन्तं यत्कारणं तद्रूप्यहमेवेति पूर्वेणैव संबन्धः ॥ १८ ॥

 श्री०टी०-किं च-गतिरिति । गम्यत इति गतिः फलम् । भर्ता पोषणकर्ता । प्रभुः, नियन्ता । साक्षी शुभाशुभद्रष्टा । निवासो भोगस्थानम् । शरणं रक्षकः । सुहृद्धितकर्ता । प्रकर्षेण भवत्यनेनेति प्रभवः स्रष्टा । प्रलीयतेऽनेनेति प्रलयः संहर्ता । तिष्ठत्यस्मिन्निति स्थानमाधारः । निधीयतेऽस्मिन्निति निधानं लयस्थानम् । बीजं कारणं, तथाऽप्यव्ययमविनाशि न तु ब्रीह्यादिबोजवन्नश्वरमित्यर्थः ॥ १८ ॥

 म०टी०-किं च-


  1. क. धकं प्रायश्चित्तात्मकं वा, ओं।