उपास्योपासकाभेदचिन्तारूपेण ज्ञानयज्ञेनैकत्वेन भेदव्यावृत्त्या मामेवोपासते चिन्तयन्त्युत्तमाः । अन्ये तु केचिन्मध्यमाः पृथक्त्वेनोपास्योपासकयोर्भेदेन "आदित्यो ब्रह्मेत्यादेशः" इत्यादिश्रुत्युक्तेन प्रतीकोपासनरूपेण ज्ञानयज्ञेन मामेवोपासते । अन्ये त्वहंग्रहोपासने प्रतीकोपासने वाऽसमर्थाः केचिन्मन्दाः कांचिदन्यां देवतां चोपासीनाः कानिचित्कर्माणि वा कुर्वाणा बहुधा तैस्तैर्बहुभिः प्रकारैर्विश्वरूपं सर्वात्मानं मामेवोपासते । तेन तेन ज्ञानयज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्वपूर्वभूमिलाभः ॥ १५ ॥
श्री० टी०-किं च-ज्ञानेति । वासुदेवः सर्वमित्येवं सर्वात्मत्वदर्शनं ज्ञानं तदेव यज्ञस्तेन ज्ञानयज्ञेन मां यजन्तः पूजयन्तोऽन्येऽप्युपासते । तत्रापि केचिदेकत्वे[१]नाभेदभावनया, केचित्पृथक्त्वेन दासोऽहमिति[२], केचित्तु विश्वतोमुखं सर्वात्मकं मा बहुधा ब्रह्मरुद्रादिरूपेणोपासते ॥ १५ ॥
म०टी०-यदि बहुधोपासते तर्हि कथं त्वामेवेत्याशङ्कयाऽऽत्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः-
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ॥ |
सर्वस्वरूपोऽहमिति वक्तव्ये तत्तदेकदेशकथनमवयुत्यानुवादेन वैश्वानरे द्वादशकपालेऽष्टाकपालत्वादिकथनवत् । क्रतुः श्रौतोऽग्निष्टोमादिः । यज्ञः स्मार्तों वैश्वदेवादिर्महायज्ञत्वेन श्रुतिस्मृतिप्रसिद्धः । स्वधाऽन्नं पितृभ्यो दीयमानम् । औषधमोषधिप्रभवमन्नं सर्वैः प्राणिभिर्भुज्यमानं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिर्येनोद्दिश्य हविर्दीयते देवेभ्यः । आज्यं धृतं, सर्वहविरुपलक्षणमिदम् । अग्निराहवनीयादिर्हविष्प्रक्षेपाधिकरणम् । हुतं हवनं हविष्प्रक्षेपः । एतत्सर्वमहं परमेश्वर एव । एतदेकैकज्ञानमपि भगवदुपासनमिति कथयितुं प्रत्येकमहंशब्दः । क्रियाकारकफलजातं किमपि भगवदतिरिक्तं नास्तीति समुदायार्थः ॥ १६ ॥
श्री० टी०.-सर्वात्मतां प्रपञ्चयति अहमिति चतुर्भि:-क्रतुः श्रौतोऽग्निष्टोमादिः । यज्ञस्तु स्मार्तः पञ्चमहायज्ञादिः । स्वधा पित्रर्थे श्राद्धादिः । औषधमोषधिप्रभवमन्नं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिः । आज्यं होमादिसाधनम् । अग्निराहवनीयादिः । हुतं होमः । एतत्सर्वमहमेव ॥ १६ ॥
म०टी०-किं च-
पिताऽहमस्य जगतो माता धाता पितामहः ॥ |