पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९क्ष्लो०१५]
२८९
श्रीमद्भगवद्गीता।


 इति वन्दनसहचरितं श्रवणाद्यपि बोद्धव्यम् । अर्चनं पादसेवनमित्यपि गुरुरूपे तस्मिन्सुकरमेव । अत्र मामिति पुनर्वचनं सगुणरूपपरामर्शार्थम् । अन्यथा वैयर्थ्यप्रसङ्गात् । तथा भक्त्या मद्विषयेण परेण प्रेम्णा नित्ययुक्ताः सर्वदा संयुक्ताः । एतेन सर्वसाधनपौष्कल्यं प्रतिबन्धकाभावश्च दर्शितः ।

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः " इति श्रुतेः ॥

 पतञ्जलिना चोक्तं " ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च " इति । तत ईश्वरप्रणिधानात्प्रत्युक्चेतनस्य त्वंपदलक्ष्यस्याधिगमः साक्षात्कारो भवति, अन्तरायाणां विघ्नानां चाभावो भवतीति सूत्रस्यार्थः । तदेवं शमदमादिसाधनसंपन्ना वेदान्तश्रवणमननपरायणाः परमेश्वरे परमगुरौ प्रेम्णा नमस्कारादिना च विगतविघ्नाः परिपूर्णसर्वसाधनाः सन्तो मामुपासते विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननोत्तरभाविना सततं चिन्तयन्ति महात्मानः । अनेन निदिध्यासनं चरमसाधनं दर्शितम् । एतादृशसाधनपौष्कल्ये सति यद्वेदान्तवाक्यजमखण्डगोचरं साक्षात्काररूपमहं ब्रह्मास्मीति ज्ञानं तत्सर्वशङ्काकलङ्कास्पृष्टं सर्वसाधनफलभूतं स्वोत्पत्तिमात्रेण दीप इव तमः सकलमज्ञानं तत्कार्यं च नाशयतीति निरपेक्षमेव साक्षान्मोक्षहेतुर्न तु भूमिजयक्रमेण भ्रूमध्ये प्राणप्रवेशनं मूर्धन्यया नाड्या प्राणोत्क्रमणमचिरादिमार्गेण ब्रह्मलोकगमनं तद्भोगान्तकालविलम्ब वा प्रतीक्षते । अतो यत्प्राक्प्रतिज्ञातम् " इदं तु ते गुह्यतमं प्रवक्ष्याभ्यनसूयवे । ज्ञानम्" इति तदेतदुक्तम् । फलं चास्याशुभान्मोक्षणं प्रागुक्तमेवेतीह पुनर्नोक्तम् । एवमत्रायं गम्भीरो भगवतोऽभिप्रायः । उत्तानार्थस्तु प्रकट एवं ॥ १४ ॥

 श्री०टी०- तेषां भजनप्रकारानाह-सततमिति द्वाभ्याम् । सततं सर्वदा स्तोत्रमन्त्रादिभिः कीर्तयन्तः केचिन्मामुपासते सेवन्ते दृढानि व्रतानि नियमा येषां तादृशाः सन्तो यतन्तश्चेश्वरपूनादिषु इन्द्रियोपसंहारादिषु च प्रयत्नं कुर्वन्तश्च । केचि. द्भक्त्या नमस्यन्तः प्रणमन्तश्चान्ये नित्ययुक्ता अनवरतमवहिताः सेवन्ते । भक्त्येति नित्ययुक्ता इति च कीर्तनादिष्वपि द्रष्टव्यम् ॥ १४ ॥

 म० टी० --- इदानीं य एवमुक्तश्रवणमन- ननिदिध्यासनासमर्थास्तेऽपि त्रिविधा उत्तमा मध्यमा मन्दाश्चेति सर्वेऽपि स्वानुरूप्येण मामुपासत इत्याह-

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ॥
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५॥

 अन्ये पूर्वोक्तसाधनानुष्ठानासमर्था ज्ञानयज्ञेन "त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि' इत्यादिश्रुत्युक्तमहंग्रहोपासनं ज्ञानं स एव परमेश्वरयजनरूपत्वाद्यज्ञस्तेन । चकार एवार्थे । अपिशब्दः साधनान्तरत्यागार्थः । केचित्साधनान्तरनिस्पृहाः सन्त