पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[अ० १क्ष्लो०४१-४v)
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ॥
स्त्रीषु दुष्टासु वाष्र्णेय जायते वर्णसंकरः ॥ ४१ ॥

 म० टी०-अस्मदीयैः पतिभिर्धर्ममतिक्रम्य कुलक्षयः कृतश्चैदस्माभिरपि व्यभिचारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः । अथवा कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम् । “अ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः " इत्यादिस्मृतेः ॥ ४१ ॥

 श्री० टी०-ततश्च–अधर्माभिभवादिति ॥ ४१ ॥

सेकरो नरकायैव कुलप्नानां कुलस्य च ॥
पतन्ति पितरो येषां लुप्तपिण्डोदकक्रियाः ॥ १२ ॥

 म० टी०-कुलस्य संकरश्च कुलझानां नरकायैव भवतीत्यन्वयः । न केवलं कुलझानामेव नरकपातः किं तु तत्पितॄणामपत्याह-पतन्तीति । हिशब्दोऽप्यर्थे हेतौ वा । पुत्रादीनां कर्तृणामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । कुलघ्नान पितरः पतन्ति नरकायैवेत्यनुषङ्गः ॥ ४२ ॥

 श्री० टी०एवं च सति-संकर इति । एषां कुलघ्नानां पितरः पतन्ति । हि यस्मालुप्ता पिण्डोदकक्रिया येषां ते ॥ ४२ ॥

दोषैरेतैः कुलम्नानां वर्णसंकरकारकैः ॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥

 म० टी०---जातिधर्माः क्षत्रियत्वादिनिवन्धना: कुलधमा असाधारणाश्च । एतैयन्तेषैरुत्साद्यन्त उत्सन्नाः क्रियन्ते विनाश्यन्त इत्यर्थः ॥ ४३ ॥

 श्री० टी०-उक्तं दोपमुपसंहरति द्वाभ्याम्-दोपैरिन् । उत्साद्यन्ते लुप्यन्ते जातिधर्मा वर्णधर्माः कुलधर्माश्च । चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥ ४३ ॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ॥
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

 म० टी०–ततश्च प्रेतत्वपरावृत्तिकारणाभवान्नरक एव निरन्तर वाम भवति ध्रुवमित्यनुशु[१]श्रृंमाऽऽचार्याणां मुखाद्यं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम् ॥ ४४ ॥


  1. क. ख. ग. ड. च. छ. ज. झ. ञ. "क्ष्रुमेत्याचा"