पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
[अ०९क्ष्लो०६-७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


रेण तत्संश्लिष्टस्तिष्ठति एवमहं भूतानि धारयन्पालयन्नपि न तेषु तिष्ठामि निरहंकारत्वादिति ॥ ५ ॥

 म०टी०-असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाऽऽह-

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ॥
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥

 यथैवासङ्गस्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्तिस्थितिसंहारकालेषु वातीति वायुः सर्वदा चलनस्वभावः । अत एव सर्वत्र गच्छतीति सर्वत्रगः, महान्परिमाणतः । एतादृशोऽपि न कदाऽप्याकाशेन सह संसृज्यते । तथैवासङ्गस्वभावे मयि संश्लेषमन्तरेणैव सर्वाणि भूतान्याकाशादीनि महान्ति सर्वत्रगानि(णि) च स्थितानीत्युपधारय विमृश्यावधारय ॥ ६ ॥

 श्री०टी०-असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाऽऽह-यथेति । अवकाशं विनाऽवस्थानानुपपत्तेर्नित्यमाकाशे स्थितो वायुः सर्वगतोऽपि महानपि नाऽऽकाशेन संश्लिष्यते निरवयवत्वेन संश्लेषायोगात्, तथा सर्वाणि भूतानि मयि स्थितानीति जानीहि ॥६॥

 म० टी०-एवमुत्पत्तिकाले स्थितिकाले च कल्पितेन प्रपञ्चेनासस्याऽऽत्मनोऽसंश्लेषमुक्त्वा प्रलयेऽपि तमाह-

सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् ॥ कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७॥

 सर्वाणि भूतानि कल्पक्षये प्रलयकाले मामिकां मच्छक्तित्वेन कल्पितां प्रकृति त्रिगुणात्मिकां मायां स्वकारणभूतां यान्ति तत्रैव सूक्ष्मरूपेण लीयन्त इत्यर्थः । हे कौन्तेयेत्युक्तार्थम् । पुनस्तानि कल्पादौ सर्गकाले विसृजामि प्रकृतावविभागापन्नानि विमागेन व्यनज्मि अहं सर्वज्ञः सर्वशक्तिरीश्वरः ॥ ७ ॥

 श्री०टी०-तदेवमसङ्गस्यैव योगमायया स्थितिहेतुत्वमुक्तम् । त[१]यैव सृष्टिप्रलयहेतुत्वं चाऽऽह-सर्वेति । कल्पक्षये प्रलयकाले सर्वाणि भूतानि मदीयां प्रकृतिं यान्ति त्रिगुणात्मिकायां मायायां लीयन्ते । पुनः कल्पादौ सृष्टिकाले तानि विसृजामि विशेषेण सृजामि ॥ ७॥

 म० टी०-किंनिमित्ता परमेश्वरस्येयं सृष्टिर्न तावत्स्वभोगार्था तस्य सर्वसाक्षिभूतचैतन्यमात्रस्य भोक्तृत्वाभावात्तथात्वे वा संसारित्वेनेश्वरत्वव्याघातात् । नाप्यन्यो भोक्ता यदथेयं सृष्टिः, चेतनान्तराभावात् , ईश्वरस्यैव सर्वत्र जीवरूपेण स्थितत्वात् ,


  1. ख. घ. ङ. च. छ. झ, ञ, तथैव ।