स्वल्पफलत्वं स्यादत्यायाससाध्यानामेव कर्मणां महाफलत्वदर्शनादिति नेत्याह-अव्य- यम् , एवमनायाससाध्यस्याप्यस्य फलतो व्ययो नास्तीत्यव्ययमक्षयफलमित्यर्थः । कर्मणां त्वतिमहतामपि क्षयिफलत्वमेव “ यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति" इति श्रुतेः । तस्मात्सर्वोत्कृष्टत्वाच्छ्रद्धेयमेवाऽऽत्मज्ञानम् ॥ २ ॥
श्री०टी०-किं च-राजविद्येति । इदं ज्ञानं राजविद्या विद्यानां राजा गुह्यानां च राजा विद्यासु गोप्येषु चातिश्रेष्ठमित्यर्थः । राजदन्तादित्वादुपसर्जनस्य परत्वम् [१]। उत्तम पवित्रमिदमत्यन्तपावनमिदम् । प्रत्यक्षावगमं च दृष्टफलं, धर्म्यं च धर्मादनपेतं सर्वधर्मफलत्वात् । कर्तुं सुसुखं च सुखेन कर्तुं शक्यमित्यर्थः । अव्ययं चाक्षयफलत्वात् ॥ २॥
म०टी०-एवमस्य सुकरत्वे सर्वोत्कृष्टत्वे च सर्वेऽपि कुतोऽत्र न प्रवर्तन्ते, तथा चन कोऽपि संसारी स्यादित्यत आह--
अश्रद्दधानाः पुरुषा धर्मस्यास्य परतप ॥ |
अस्याऽऽत्मज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्रप्रतिपादितेऽपि अश्रदधाना वेदविरोधिकुहेतुदर्शनदूषितान्तःकरणतया प्रामाण्यममन्यमानाः पापकारिणोऽसुरसंपदमारूढाः स्वमतिकल्पितेनोपायेन कथंचिद्यतमाना अपि शास्त्रविहितोपायाभावादप्राप्य मां मत्प्राप्तिसाधनमप्यलब्ध्वा निवर्तन्ते निश्चयेन वर्तन्ते । क्व मृत्युयुक्त संसारवर्मनि, सर्वदा जननमरणप्रबन्धनेन नारकितिर्यगादियोनिष्वेव भ्रमन्तीत्यर्थः ॥ ३ ॥
श्री०टी०- नन्वेवमस्यातिसुकरत्वे के नाम संसारिणः स्युस्तत्राऽऽह-अश्रद्दधाना इति । अस्य भक्तिसहितज्ञानलक्षणस्य धर्मस्येति कर्मणि [२]षष्ठ्यौ । इमं धर्ममश्रद्दधाना आस्तिक्येनास्वीकुर्वन्त उपायान्तरेण मत्प्राप्तये कृतप्रयत्ना अपि मामप्राप्य मृत्युयुक्ते संसारवर्त्मनि निमित्ते निवर्तन्ते मृत्युव्याप्ते संसारमार्गे परिभ्रमन्तीत्यर्थः॥ ३ ॥
म०टी०-~तदेवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधिमुखेनेतरनिषेधमुखेन च स्तुत्याऽभिमुखीकृतमर्जुनं प्रति तदेवाऽऽह द्वाभ्याम् -
मया ततमिदं सर्व जगदव्यक्तमूर्तिना ॥ |
इदं जगत्सर्वं भूतभौतिकतत्कारणरूपं दृश्यजातं मदज्ञानकल्पितं मयाऽधिष्ठानेन परमार्थसता सद्रूपेण स्फुरणरूपेण च ततं व्याप्तं रज्जुखण्डेनेव तदज्ञानकल्पितं सर्प-