श्री०टी०- आवृत्तिमार्गमाह-धूम इति धूमाभिमानिनी देवता । रात्र्यादिशब्दैश्च पूर्ववदेव रात्रिकृष्णपक्षदक्षिणायनरूपषण्मासाभिमानिन्यस्तित्रो देवता उपलक्ष्यन्ते । एताभिर्देवताभिरुपलक्षितो यो मार्गस्तत्र प्रयातः कर्मयोगी चान्द्रमसं ज्योतिस्तदुपलक्षितं स्वर्गलोकं प्राप्य तत्रेष्टापूर्तकर्मफलं भुक्त्वा पुनरावर्तते । अत्रापि श्रुतिः-
"ते धूममभिसंभ[१]वन्ति" इत्यादिः। तदेवं निवृत्तिकर्मसहितोपासनया क्रममुक्तिः काम्यकर्मभिश्च स्वर्गभोगानन्तरमावृत्तिः । निषिद्धकर्मभिस्तु नरकभोगानन्तरमावृत्तिः । क्षुद्रकर्मणां
तु जन्तूनामत्रैव पुनः पुनर्जन्मेति द्रष्टव्यम् ॥ २५ ॥
म०टी०--उक्तौ मार्गावुपसंहरति--
शुक्लकृष्णे गती येते जगतः शाश्वते मते ॥ |
शुक्लाऽर्चिरादिगतिर्ज्ञानप्रकाशमयत्वात् । कृष्णा धूमादिगतिर्ज्ञानहीनत्वेन तमोमय- त्वात् । ते एते शुक्लकृष्णे गती मार्गौ हि प्रसिद्धे सगुणविद्याकर्माधिकारिणोः, जगतः सर्वस्यापि शास्त्रज्ञस्य शाश्वते अनादी मते संसारस्यानादित्वात् । तयोरेकया शुक्लया यात्यनावृत्ति कश्चित् , अन्यया कृष्णया पुनरावर्तते सर्वोऽपि ॥ २६ ॥
श्री०टी०-उक्तौ मार्गावुपसंहरति-- शुक्लेति । शुक्लाऽचिरादिगतिः प्रकाशमयत्वात् । कृष्णा धूमादिगतिस्तमोमयत्वात् । एते गती मार्गौ ज्ञानकर्माधिकारिणो जगतः शाश्वते अनादी संमते संसारस्थानादित्वात् । तयोरेकया शुक्लया नि(sना)वृत्तिं मोक्षं याति अन्यया कृष्णया तु पुनरावर्तते ॥ २६ ॥
म०. टी०-~गतेरूपास्यत्वाय तद्विज्ञानं स्तौति-
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ॥ |
एते सृती मार्गों हे पार्थ जानन्क्रममोक्षायैका पुनः संसारायापरेति निश्चिन्वन्योगी ध्याननिष्ठो न मुह्यति केवलं कर्म धूमादिमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति कश्चन कश्चिदपि । तस्माद्योगस्यापुनरावृत्तिफलत्वात्सर्वेषु कालेषु योगयुक्तः समाहितचित्तो भवापुनरावृत्तये हेऽर्जुन ॥ २७ ॥
श्री० टी०-मार्गज्ञानफलं दर्शयन्भक्तियोगमुपसंहरति-नैते इति । एते सृती
- ↑ क. 'वन्ति धूमादात्रैरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणाऽऽदित्य एति मासेभ्यः पितृलोके पितृलोकाचन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति ।