वरुणेन्द्रप्रजापतयस्तावता मार्गपर्वपूर्तिः । तत्रार्चिरहःशुक्लपक्षोत्तरायणदेवता इहोक्त संवत्सरो देवलोको वायुरादित्यश्चन्द्रमा विद्युद्वरुण इन्द्रः प्रजापतिश्चेत्यनुक्ता अ द्रष्टव्याः । तत्र देवयानमार्गे प्रयाता गच्छन्ति ब्रह्म कार्योपाधिकं " कार्य वादरिरस गत्युपपत्तेः" इति न्यायात् । निरुपाधिकं तु ब्रह्म तद्वारैव क्रममुक्तिफलत्वात् । ब्रह्म विदः सगुणब्रह्मोपासका जनाः । अत्र " एतेन प्रतिपद्यमाना इमं मानवमावर्त नाऽऽवर्तन्ते " इति श्रुताविममिति विशेषणात्कल्पान्तरे केचिदावर्तन्त इति प्रतीयते । अत एवात्र भगवतोदासितं श्रौतमार्गकथनेनैव व्याख्यानात् ॥ २४ ॥
श्री०टी०-तत्रानावृत्तिमार्गमाह-अग्निरिति । अग्निज्योतिःशब्दाभ्यां तेऽर्चिषमभिसंभवन्तीतिश्चुत्युक्तार्चिरभिमानिनी देवतोपलक्ष्यते । अहरिति दिवसाभिमानिनी । शुक्ल इति शुक्लपक्षाभिमानिनी। उत्तरायणरूपाः षण्मासा इत्युत्तरायणाभिमानिनी । एतच्चान्यासामपि श्रुत्युक्तानां संवत्सरदेवलोकादिदेवतानामुपलक्षणार्थम् । एवंभूतो यो मार्गस्तत्र प्रयाता गता भगवदुपासका जना ब्रह्म प्राप्नुवन्ति[१] । यतस्ते ब्रह्मविदः । तथाच श्रुति:--"तेऽर्चिषिमभिसंभवन्ति अर्चिषोऽहरहु आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्डादित्य [२]एति मासेभ्यो देवलोकमित्यादिः[३] ॥ २४ ॥
म०. टी०.-देवयानमार्गस्तुत्यर्थं पितृयाणमार्गमाह-
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ॥ |
अत्रापि धूम इति धूमाभिमानिनी देवता, रात्रिरिति रात्र्यभिमानिनी, कृष्ण इति कृष्णपक्षाभिमानिनी, षण्मासा दक्षिणायनमिति दक्षिणायनाभिमानिनी लक्ष्यते । एतदप्यन्यासां श्रुत्युक्तानामुपलक्षणम् । तथाहि श्रुतिः-" ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेम्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा मक्षयन्ति तस्मिन्यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते" इति । तत्र धूमरात्रिकृष्णपक्षदक्षिणायनदेवता इहोक्ताः । पितृलोक आकाशश्चन्द्रमा इत्यनुक्ता अपि द्रष्टव्याः । तत्र तस्मिन्पथि प्रयाताश्चान्द्रमसं ज्योतिः फलं योगी कर्मयोगीष्टापूर्तदत्तकारी प्राप्य यावत्संपातमुषित्वा निवर्तते । संपतत्यनेनेति संपातः कर्म । तस्मादेतस्मादावृत्तिमार्गादनावृत्तिमार्गः श्रेयानित्यर्थः ॥ २५ ॥