पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० १क्ष्लो०४५-४६ ]
२५
श्रीमद्भगवद्गीता ।


 श्री० टी०---उत्सन्नेति । उत्सन्नाः कुलधर्मा येषां ते तथा तेषाम् । उत्सन्नकुलधर्माणामिति उत्सन्नजातिधर्मादीनामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् ।

"प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान्निरयान्यान्ति दारुणान् "॥

 इत्यादिवचनेभ्यः ॥ ४४ ॥

 म० टी०-बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनाऽऽत्मानं शोचन्नाह-

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ॥
यद्वाज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥

 यदीदृशीं ते बुद्धिः कुतस्तर्हि युद्धाभिनिवेशेनाऽऽगतोऽसीति न वक्तव्यमविमृश्य- कारितया मयौद्धत्यस्य कृतत्वादिति भावः ॥ ४९ ॥

 श्री० टी०–बन्धुवधव्यवसायेन संतप्यमान आह-अहो इति । स्वजनं हन्तुमुद्यता इति यत्, एतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम्, अहो बत कष्टमित्यर्थः ॥ ४५ ॥

 म० टी०–ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाद्बन्धुवधो भविष्यत्येव त्वया पुनः किं विधेयमित्यत आह--

यदि मामप्रतीकारमशस्त्र शस्रपाणयः ॥
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षे[१]मतरं भवेत् ॥ ४६॥

 प्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसा, पापानिष्पत्तेः । तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत् । प्रियतरमिति पाठेऽपि स एवार्थः । अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तररहितं वा । तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यतीत्यर्थः ॥ ४६ ॥

 श्री० टी०--एवं संतप्तः सन्मृत्युमेवाऽऽशासन आह-यदीति । अकृतप्रतीकारं तूष्णीमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पापानिष्पत्तेः ॥ ४६ ॥


  1. ङ. छ. झ. प्रियतरं !