पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥ |
स परो निरतिशयः पुरुषः परमात्माऽहमेवानन्यया न विद्यतेऽन्यो विषयो यस्यां तया प्रेमलक्षणया भक्त्यैव लभ्यो नान्यथा । स क इत्यपेक्षायामाह-यस्य पुरुषस्यान्तःस्थान्यन्तर्वर्तीनि भूतानि सर्वाणि कार्याणि कारणान्तर्वतित्वात्कार्यस्य । अत एव येन पुरुषेण सर्वमिदं कार्यजातं ततं व्याप्तं-
" यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । |
"स पर्यगाच्छुक्रम् " इत्यादिश्रु[२]तिभ्यश्च ॥ २२ ॥
श्री०टी०---तत्प्राप्तौ च भक्तिरन्तरकोपाय इत्युक्तमेवेत्याह-पुरुष इति । स चाहं परः पुरुषोऽनन्यया न विद्यतेऽन्यः शरणत्वेन यस्यां तयैकान्तभक्त्यैव लभ्यो नान्यथा । परत्वमेवाऽऽह-यस्य कारणभूतस्यान्तर्मध्ये भूतानि स्थितानि । येन च कारणभूतेन सर्वमिदं जगत्ततं व्याप्तम् ॥ २२ ॥
म०टी०-~-सगुणब्रह्मोपासकास्तत्पदं प्राप्य न निवर्तन्ते किं तु क्रमेण मुच्यन्ते । तत्र तल्लोकभोगात्प्रागनुत्पन्नसम्यग्दर्शनानां तेषां मार्गापेक्षा विद्यते न तु सम्यग्दर्शिनामिव तदनपेक्षेत्युपासकानां तल्लोकप्राप्तये देवयानमार्ग उपदिश्यते। पितृयान(ण)मार्गोपन्यासस्तु तस्य स्तुतये-
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ॥ |
प्राणोत्क्रमणानन्तरं यत्र यस्मिन्काले कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिनो ध्यायिनः कर्मिणश्चानावृत्तिमावृत्तिं च यान्ति देवयाने पथि प्रयाता ध्यायिनोऽनावृत्तिं यान्ति पितृयाने(णे) पथि प्रयाताश्च कर्मिण आवृत्तिं यान्ति । यद्यपि देवयानेऽपि पथि प्रयाताः पुनरावर्तन्त इत्युक्तम् “आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः" इत्यत्र, तथाऽपि पितृयाणे पथि गता आवर्तन्त एव न केऽपि तत्र क्रममुक्तिभाजः । देवयाने पथि गतास्तु यद्यपि केचिदावर्तन्ते प्रतीकोपासकास्तडिल्लोकपर्यन्तं गता हिरण्यगर्भपर्यन्तममानवपुरुषनीता अपि पञ्चाग्निविद्याद्युपासका अतत्क्रतवो