पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
[अ०८ क्ष्लो०१४-१५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


देहं त्यक्तुं स्वेच्छया न शक्नोति किं तु कर्मक्षयेणैव परवशो देहं त्यजति तस्य किं स्यादिति तदाह-

अनन्यचेताः सततं यो मां स्मरति नित्यशः॥
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

 न विद्यते मदन्यविषये चेतो यस्य सोऽनन्यचेताः सततं निरन्तरं नित्यशो यावज्जीवं यो मां स्मरति तस्य स्ववशतया परवशतया वा देहं त्यजतोऽपि नित्ययुक्तस्य सततसमाहितचित्तस्य योगिनः सुलभः सुखेन लभ्योऽहं परमेश्वर इतरेषामतिदुर्लभोऽपि हे पार्थ, तवाहमतिसुलभो मा भैषीरित्यभिप्रायः । अत्र तस्येति षष्ठी शेषे संबन्धसमान्ये । कर्तरि न लोकेत्यादिना निषेधात् । अत्र चानन्यचेतस्त्वेन सत्कारोऽत्यादरः सततमिति नैरन्तर्यं नित्यश इति दीर्घकालत्वं स्मरणस्योक्तम् । तेन " स तु दीर्घकालनरन्तर्यसत्कारासेवितो दृढभूमिः " इति पातञ्जलं मतमनुसृतं भवति । तत्र स इत्यभ्यास उक्तोऽपि स्मरणपर्यवसायी । तेन यावज्जीवं प्रतिक्षणं विक्षेपान्तरशून्यतया भगवदनुचिन्तनमेव परमगतिहेतुर्मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमणं भवतु न वेति नातीवाऽऽग्रहः ॥ १४ ॥

 श्री०टी०-एवं चान्तकाले धारणया मत्प्राप्तिनित्याभ्यासवत एव भवति नान्यस्येति पूर्वोक्तमेवानुस्मारयति-अनन्येति । नास्त्यन्यस्मिंश्वेतो यस्य तथाभूतः सन्यो मां सततं निरन्तरं नित्यशः प्रतिदिनं स्मरति तस्य नित्ययुक्तस्य समाहितस्याहं सुखेन लभ्योऽस्मि नान्यस्य ॥ १४ ॥

 म० टी०-भगवन्तं प्राप्ताः पुनरावर्तन्ते न वेति संदेहे नाऽऽवर्तन्त इत्याह-

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ॥
नाऽऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५॥

 मामीश्वरं प्राप्य पुनर्जन्म मनुष्यादिदेहसंबन्धं, कीदृशं दुःखालयं गर्भवासयोनिद्वारनिर्गमनाद्यनेकदुःखस्थानम् । अशाश्वतमस्थिरं दृष्टनष्टप्रायं नाऽऽप्नुवन्ति पुनर्नाऽऽवर्तन्त इत्यर्थः । यतो महात्मानो रजस्तमोमलरहितान्तःकरणाः शुद्धसत्त्वाः समुत्पन्नसम्यग्दर्शना मल्लोकभोगान्ते परमां सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास्ते । अत्र मां प्राप्य सिद्धिं गता इति वदतोपासकानां क्रममुक्तिर्दर्शिता ॥ १५ ॥

 श्री० टी०-यद्येवं त्वं सुलमोऽसि ततः किमत आह-मामिति । उक्त लक्षणा महात्मानो मद्भक्ता मां प्राप्य पुनर्दुःखाश्रयमनित्यं च जन्म न प्राप्नुवन्ति । यतस्ते परमां सम्यक्सिद्धिं मोक्षमेव प्राप्ताः । पुनर्जन्मनो दुःखानां चाऽऽलयं स्थानं ते मामुपेत्य न प्राप्नुवन्तीति वा ॥ १५ ॥ -