पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८क्ष्लो०१३]
२६९
श्रीमद्भगवद्गीता।

 सर्वाणीन्द्रियद्वाराणि संयम्य स्वस्वविषयेभ्यः प्रत्याहृत्य विषयदोषदर्शनाभ्यासात्तद्विमुखतामापादितैः श्रोत्रादिभिः शब्दादिविषयग्रहणमकुर्वन् । बाह्येन्द्रियनिरोधेऽपि मनसः प्रचारः स्यादित्यत आह-मनो हृदि निरुध्य च, अभ्यासवैराग्याभ्यां षष्ठे व्याख्याताम्यां हृदयदेशे मनो निरुध्य निर्वृत्तिकतामापाद्य च, अन्तरपि विषयचिन्तामकुर्वन्नित्यर्थः । एवं बहिरन्तरुपलब्धिद्वाराणि सर्वाणि संनिरुध्य क्रियाद्वारं प्राणमपि सर्वतो निगृह्य भूमिजयक्रमेण मूर्घ्न्याधाय भ्रुवोर्मध्ये तदुपरि च गुरूपदिष्टमार्गेणाऽऽवेश्याऽऽत्मनो योगधारणामात्मविषयसमाधिरूपां धारणामास्थितः । आत्मन इति देवतादिव्यावृत्त्यर्थम् ॥ १२ ॥

 श्री० टी०-प्रतिज्ञातमुपायं साङ्गमाह द्वाभ्याम्-सर्वेति । सर्वाणीन्द्रियद्वाराणि संयम्य प्रत्याहृत्य चक्षुरादिभिर्बाह्यविषयग्रहणमकुर्वनित्यर्थः । मनश्च हृदि निरुध्य बाह्यविषयस्मरणमकुर्वन्नित्यर्थः । मूर्ध्नि भ्रुवोर्मध्ये प्राणमाधाय योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन् ॥ १२ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३॥

 म०टी०-ओमित्ये[१]कमक्षरं ब्रह्मवाचकत्वात्प्रतिमावब्रह्मप्रतीकत्वाद्वा ब्रह्म व्याहरन्नुच्चरन् । ओमिति व्याहरन्नित्येतावतैव निर्वाह एकाक्षरमित्यनायासकथनेन स्तुत्यर्थम् । ओमिति व्याहरन्नेकाक्षरमेकमद्वितीयमक्षरमविनाशि सर्वव्यापकं ब्रह्म मामोमित्यस्यार्थं स्मरन्निति वा । तेन प्रणवं जपंस्तदभिधेयभूतं च मां चिन्तयन्मूर्धन्यया नाड्या देहं त्यजन्यः प्रयाति स याति देवयानमार्गेण ब्रह्मलोकं गत्वा तद्भोगान्ते परमां प्रकृष्टां गति मद्रूपाम् । अत्र पतञ्जलिना " तीव्रसंवेगानामासन्नः" समाधिलाभः, इत्युक्त्वा “ ईश्वरप्रणिधानाद्वा " इत्युक्तम् । प्रणिधानं च व्याख्यातं " तस्य वाचकः प्रणवः" " तज्जपस्तदर्थभावनम् ” इति । "समाधिसिद्धिरीश्वरप्रणिधानात्" इति च । इह तु साक्षादेव ततः परमगतिलाम इत्युक्तम् । तस्मादविरोधायोमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्नात्मनो योगधारणामास्थित इति व्याख्येयम् । विचित्रफलत्वोपपत्तेर्वा न विरोधः ॥ १३ ॥

 श्री०टी०-ओमिति । ओमित्येकं यदक्षरं तदेव ब्रह्मवाचकत्वाद्वा प्रतिमादिवद्ब्रह्मप्रतीकत्वाद्वा ब्रह्म तद्याहरन्नुच्चारयस्तद्वाच्यं च मामनुस्मरन्नेव देहं त्यजन्यः प्रकर्षेण याति अर्चिरादिमार्गेण स परमां श्रेष्ठां गतिं मद्गतिं याति प्राप्नोति ॥ १३ ॥

 म० टी०-य एवं वायुनिरोधवैधुर्येण ध्रुवोर्मध्ये प्राणमावेश्य मूर्धन्यया नाड्या


  1. ख, ग. घ. 'येकाक्ष। च. श. "त्येतदक्ष।