पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
[अ०८ क्ष्लो०५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


" स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत" इति श्रुतेः ॥

 अत्रास्मिन्देहेऽन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञादिकर्मप्रवर्तकस्तत्फलदाता च । कथमित्यस्योत्तरमनेनैवोक्तं द्रष्टव्यम् । अन्तर्यामिणोऽसङ्गत्वादिभिर्गुणैर्जीववैलक्षण्येन देहान्तर्वतित्वस्य प्रसिद्धत्वात् । तथाच श्रुतिः-

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इति ॥

 देहभृतां मध्ये श्रेष्ठेति संबोधयंस्त्वमप्येवंभूतमन्तर्यामिणं पराधीनस्वप्रवृत्तिनिवृत्त्यन्वयव्यतिरेकाम्या बोद्धुमर्हसीति सूचयति ॥ ४ ॥

 म०टी०-इदानीं प्रयाणकाले च कथं ज्ञेयोऽसीति सप्तमस्य प्रश्नस्योत्तरमाह-

अन्तकाले च मामेव स्मरन्मुक्त्या कलेवरम् ॥
यः प्रयाति स मद्रावं याति नास्त्यत्र संशयः ॥५॥

 मामेव भगवन्तं वासुदेवमधियज्ञं सगुणं निर्गुणं वा परममक्षरं ब्रह्म न त्वध्यात्मादिकं स्मरन्सदा चिन्तयंस्तत्संस्कारपाटवात्समस्तकरणग्रामवैयत्र्यवत्यन्तकालेऽपि स्मरन्कलेवरं मुक्त्वा शरीरेऽहममाभिमानं त्यक्त्वा प्राणवियोगकाले यः प्रयाति, सगुणध्यानपक्षेऽग्निर्ज्योतिरहः शुक्ल इत्यादिवक्ष्यमाणेन देवयानमार्गेण पितृयान(ण)मार्गात्प्रकर्षेण याति स उपासको मद्भावं मद्रूपतां निर्गुणब्रह्मभावं हिरण्यगर्भलोकभोगान्ते याति प्राप्नोति । निर्गुणब्रह्मस्मरणपक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोकदृश्यभिप्रायं न तस्य प्राणा उत्क्रामन्त्यत्रैव सम[१]वनीयन्ते " इति श्रुतेस्तस्य प्राणोत्क्रमणाभावेन मत्यभावात् । स मद्भाव साक्षादेव याति " ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुतेः । नास्त्यत्र देहव्यतिरिक्त आत्मनि मद्भावप्राप्तौ वा संशयः, आत्मा देहाद्यतिरिक्तो न वा, देहव्यतिरेकेऽपि ईश्वराद्भिन्नो न वेति संदेहो न विद्यते " छिद्यन्ते सर्वसंशयाः " इतिश्रुतेः । अत्र च कलेवरं मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादभिन्नत्वं जीवस्योक्तमिति द्रष्टव्यम् ॥ ५ ॥

 श्री०टी०-प्रयाणकाले च कथं ज्ञेयोऽसीत्यनेन पृष्टमन्त[२]काले ज्ञानोपायं तत्फलं च दर्शयति-अन्तकाल इति । मामेवोक्तलक्षणमन्तर्यामिरूपं परमेश्वरं स्मरन्देहं त्यक्त्वा यः प्रकर्षणाचिरादिमार्गेण याति स मद्भावं मद्रूपतां याति । अत्र च संशयो नास्ति । स्मरणं ज्ञानोपायो मद्भावापत्तिश्च फलमित्यर्थः ॥ ५॥


  1. क, ग, च, झ. बलीय ।
  2. क. 'कालज्ञा ।