पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो०३०]
२५९
श्रीमद्भगवद्गीता।


विदुः कृत्स्नमध्यात्मं च विदुः । येन तत्प्राप्तव्यं तं देहादिव्यतिरिक्तं शुद्धमात्मानं च जानन्तीत्यर्थः । तत्साधनभूतमखिलं सरहस्यं कर्म च जानन्ति ॥ २९ ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ॥
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्या

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगो

नाम सप्तमोऽध्यायः ॥ ७॥

 म०टी०-न चैवंभूतानां मद्भक्तानां मृत्युकालेऽपि विवशकरणतया मद्विस्मरणं शङ्कनीय, यतः साधिभूताधिदैवमधिभूताधिदैवाभ्यां सहितं तथा साधियज्ञं चाधियज्ञेन च सहितं मां ये विदुश्चिन्तयन्ति ते युक्तचेतसः सर्वदा मयि समाहितचेतसः सन्तस्तत्संस्कारपाटवात्प्रयाणकाले प्राणोत्क्रमणकाले करणग्रामस्यात्यन्तव्यग्रतायामपि, चकारादयत्नेनैव मत्कृपया मां सर्वात्मानं विदुर्जानन्ति, तेषां मृतिकालेऽपि मदाकारैव चित्तवृत्तिः पूर्वोपचितसंस्कारपाटवाद्भवति । तथा च ते मद्भक्तियोगात्कृतार्था एवेति भावः । अधिभूताधिदैवाधियज्ञशब्दानुत्तरेऽध्यायेऽर्जुनप्रश्नपूर्वकं व्याख्यास्यति भगवानिति सर्वमनाविलम् । तदत्रोत्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति च ध्येयं लक्षणया मुख्यया च वृत्त्या तत्पदप्रतिपाद्यं ब्रह्म निरूपितम् ॥ ३० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु.

सूदनप्तरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकाया-

मधिकारिभेदेन ज्ञेयध्येयप्रतिपाद्यतत्त्वब्रह्मनिरू-

पणं नाम सप्तमोऽध्यायः॥ ७ ॥

 श्री०टी-न चैवभूतानां योगभ्रंशशङ्काऽपीत्याह-साधिभूताधिदेवमिति । अधिभूतादिशब्दानामर्थं भगवानेवानन्तराध्याये व्याख्यास्यति । अधिभूतेनाधिदेवेन च सहाधियज्ञेन च सहितं ये मां जानन्ति ते युक्तचेतसो मय्यासक्तमनसः प्रयाणकालेऽपि मरणसमयेऽपि मां विदुर्न तु तदाऽपि व्याकुलीभूय मां विस्मरन्ति । अतो मद्भक्तानां न योगभ्रंशशङ्केत्यर्थः ॥ ३० ॥