पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
[अ०७क्ष्लो०२२-२३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


त्प्राप्तां भक्तिमचलां स्थिरां विदधामि करोम्यहमन्तर्यामी, न तु मद्विषयां श्रद्धां तस्य तस्य करोमीत्यर्थः । तामेव श्रद्धामिति व्याख्याने यच्छब्दानन्वयः स्पष्टस्तस्मात्प्रतिशब्दमध्यात्हत्य व्याख्यातम् ॥ २१ ॥

 श्री०टी०--देवताविशेष ये भजन्ति तेषां मध्ये यो यो यामिति । यो यो भक्तो यां यां तनुं देवतारूपां मदीयामेव मूर्ति श्रद्धयाऽर्चितुमिच्छति प्रवर्तते तस्य तस्य भक्तस्य तत्तन्मूर्तिविषयां तामे श्रद्धामचलां दृढामहमन्तर्यामी विदधामि करोमि ॥२१॥

स तया श्रद्धया युक्तस्तस्या राधनमीहते ॥
लभते च ततः कामान्मयैव विहितान्हि तान् ॥२२॥

स कामी तया मद्विहितया स्थिरया श्रद्धया युक्तस्तस्या देवतातन्वा राधनमाराधनं पूजनमीहते निर्वतयति । उपसर्गरहितोऽपि राधयतिः पूजार्थः । सोपसर्गत्वे ह्याकारः श्रूयेत । लभते च ततस्तस्या देवतातन्वाः सकाशात्कामानीप्सितांस्तान्पूर्वसंकल्पितान्हि प्रसिद्धम् । मयैव सर्वज्ञेन सर्वकर्मफलदायिना तत्तद्देवतान्तर्यामिणा विहितांस्तत्तत्फलविपाकसमये निर्मितान् । हितान्मनःप्रियानित्यैकपद्य वा । अहितत्वेऽपि हिततया प्रतीयमानानित्यर्थः ॥ २२ ॥

 श्री०टी०-ततश्च-स तयेति । स भक्तस्तया दृढया श्रद्धया तस्यास्तनो राधनमाराधनमीहते करोति । ततश्च ये संकल्पिताः कामास्तान्कामांस्ततो देवताविशेषाल्लभते । किं तु मयैव तत्तद्देवतान्तर्यामिणा विहितान्निमितान्हि स्फुटमेतत्तत्तद्देवतानामपि मदधीनत्वान्मन्मूर्तित्वाच्चेत्यर्थः ॥ २२ ॥

 म०टी०-यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवस्तदाराधनमपि वस्तुतो मदाराधनमेव, सर्वत्रापि च फलदाताऽन्तर्याम्यहमेव, तथाऽपि साक्षान्मद्भक्तानां च तेषां च वस्तुविवेकाविवेककृतं फलवैषम्यं भवतीत्याह-

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥

 अल्पमेधसां मन्दप्रज्ञत्वेन वस्तुविवेकासमर्थानां तेषां तत्तद्देवताभक्तानां तन्मया विहितमपि तत्तद्देवताराधननं फलमन्तवदेव विनाश्येव न तु मद्भक्तानां विवेकिनामिवानन्तं फलं तेषामित्यर्थः । कुत एवं यतो देवानिन्द्रादीनन्तवत एव देवयजो मदन्यदेवताराधनपरा यान्ति प्राप्नुवन्ति । मद्भक्तास्तु त्रयः सकामाः प्रथम मत्प्रसादादीष्टान्कामान्प्राप्नुवन्ति । अपिशब्दप्रयोगात्ततो मदुपासनापरिपाकान्मामनन्तमानन्दघनमीश्वरमपि यान्ति प्राप्नुवन्ति । अतः समानेऽपि सकामत्वे मद्भक्तानामन्यदेवताभक्तानां च महदन्तरम् । तस्मात्साधूक्तमुदाराः सर्व एवैत इति ॥ २३ ॥ .. -