पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
[अ०७क्ष्लो०१९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतंटीकाभ्यां समेता-


इत्यत्र तरवर्थस्य विवक्षितत्वाद्विद्यादिन्यतिरेकेण कृतमपि कर्म वीर्यवद्भवत्येव, तथाऽत्यर्थ ज्ञानी भक्तो मम प्रिय इत्युक्तेर्थो ज्ञानव्यतिरेकेण भक्तः सोऽपि प्रिय इति पर्यवस्यत्येव, अत्यर्थमिति विशेषणस्य विवक्षितत्वात् । उक्त हि-"ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्" इति । अतो मामात्मत्वेन ज्ञानवाञ्ज्ञानी, आत्मैव न मत्तो भिन्नः किं त्वहमेव स इति मम मतं निश्चयः । तुशब्दः सकामभेददर्शित्रितयापेक्षया निष्कामत्वमेदार्शित्वविशेषद्योतनार्थः । हि यस्मात्स ज्ञानी युक्तात्मा सदा मयि समाहितचित्तः सन्मां भगवन्तमनन्तमानन्दधनमात्मानमेवानुत्तमां सर्वोत्कृष्टां गतिं गन्तव्यं परमं फलमास्थितोऽङ्गीकृतवान् , न तु मद्भिन्नं किमपि फलं स मन्यत इत्यर्थः ॥ १८ ॥

 श्री०टी०--तर्हि किमितरे त्रयस्त्वद्भक्ताः संसरन्ति नहि नहीत्याह-उदारा इति । सर्वेऽप्येत उदारा महान्तो मोक्षमाज एवेत्यर्थः । ज्ञानी पुनरात्मैवेति मे मतं निश्चयः । हि यस्मात्स ज्ञानी युक्तात्मा मदेकचित्तः सन्न विद्यत उत्तमा यस्यास्तामनुत्तमा सर्वोत्तमां गति मामेवाऽऽस्थित आश्रितवान् । मव्द्यतिरिक्तमन्यत्फलं न मन्यत इत्यर्थः ॥ १८॥

 म०टी०-यस्मादेवं तस्मात्-

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

 बहूनां जन्मनां किंचित्किंचित्पुण्योपचयहेतूनामन्ते चरमे जन्मनि सर्वसुकृतविपाकरूपे वासुदेवः सर्वमिति ज्ञानवान्सन्मां निरुपाधिप्रेमास्पदं प्रपद्यते सर्वदा समस्तप्रेमविषयत्वेन भजते , सकलमिदमहं च वासुदेव इति दृष्ट्या सर्वप्रेम्णां मस्येव पर्यवसायित्वात् । अतः स एवंज्ञानपूर्वकमद्भक्तिमान्महात्माऽत्यन्तशुद्धान्तःकरणत्वाज्जीवन्मुक्तः सर्वोत्कृष्टो न तत्समोऽन्योऽस्ति अधिकस्तु नास्त्येव । अतः सुदुर्लभो मनुष्याणां संहस्रेषु दुःखेनापि लब्धुमशक्यः । अतः स निरतिशयमत्प्रीतिविषय इति युक्तमेवेत्यर्थः ॥ १९॥

 श्री०टी०-एवंभूतो मद्भक्तोऽतिदुर्लभ इत्याह-बहूनामिति । बहूनां जन्मनां किंचित्किंचित्पुण्योपचयेनान्ते चरमे जन्मनि ज्ञानवान्सर्वमिदं चराचरं वासुदेव एवेति सर्वात्मदृष्टया मां प्रपद्यते भजति । अतः स महात्माऽपरिच्छिन्नदृष्टिः सुदुर्लभः ॥ १९ ॥

 म०टी०-तदेवमार्तादिभक्तत्रयापेक्षया ज्ञानिनो भक्तस्योत्कर्षस्तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यत इत्यत्र प्रतिज्ञातो व्याख्यातः । अधुना तु सकामत्वे भेद-