पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो०१७-१८]
२५१
श्रीमद्भगवद्गीता।


संसरति । एवमुत्तरत्रापि द्रष्टव्यम् । जिज्ञासुरात्मज्ञानेच्छुः । अर्थार्थी, अत्र वा परत्र वा भोगसाधनभूतार्थलिप्सुः । ज्ञानी चाऽऽत्मवित् ॥ १६ ॥

 म०टी०-चतुर्विधानामपि सुकृतित्वे नियतेऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात्-

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥

चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्वज्ञानवानिवृत्तसर्वकामो विशिष्यते सर्वतोऽतिरिच्यते सर्वोत्कृष्ट इत्यर्थः । यतो नित्ययुक्तो भगवति प्रत्यगमिन्ने सदा समाहितचेता विक्षेपकाभावात् । अत एवैकभक्तिरेकस्मिन्भगवत्येव भक्तिरनुरक्तिर्यस्य स तथा, तस्यानुरक्तिविषयान्तराभावात् । हि यस्मात्प्रियो निरुपाधिप्रेमास्पदमत्यर्थमत्यन्तातिशयेन ज्ञानिनोऽहं प्रत्यगभिन्नः परमात्मा च तस्मादत्यर्थं स मम परमेश्वरस्य प्रियः। आत्मा प्रियोऽतिशयेन भवतीति श्रुतिलोकयोः प्रसिद्धमेवेत्यर्थः ॥ १७ ॥

 श्री० टी०-तेषां मध्ये ज्ञानी श्रेष्ठ इत्याह-तेषामिति । तेषां मध्ये ज्ञानी विशिष्टः । तत्र हेतवः-नित्ययुक्तः सदा मन्निष्ठः । एकस्मिन्मय्येव भक्तिर्यस्य सः। ज्ञानिनो देहाद्यभिमानाभावेन चित्तविक्षेपाभावान्नित्ययुक्तत्वमेकान्तभक्तिश्च संभवति नान्यस्य । अत एव हि तस्याहमत्यन्तं प्रियः । स च मम । तस्मादेतैर्नित्ययुक्तत्वादिभिश्चतुर्हेतुभिः स उत्तम इत्यर्थः ॥ १७ ॥

 म०टी०--तत्किमार्तादयस्तव न प्रियाः, न, अत्यर्थमिति विशेषणादित्याह-

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८॥

 एत आर्तादयः सकामा अपि मद्भक्ताः सर्वे त्रयोऽप्युदारा एवोत्कृष्टा एवं पूर्वजन्मार्जितानेकसुकृतराशित्वात् । अन्यथा हि मां न भजेयुरेव, आर्तस्य जिज्ञासोरार्थिनश्च मद्विमुखस्य क्षुद्रदेवताभक्तस्यापि बहुलमुपलम्भात् । अतो मम प्रिया एव ते । न हि ज्ञानवानज्ञो वा कश्चिदपि भक्तो ममाप्रियो भवति । किं तु यस्य यादृशी मयि प्रीतिर्ममापि तत्र तादृशी प्रीतिरिति स्वभावसिद्धमेतत् । तत्र सकामानां त्रयाणां काम्यमानमपि प्रियमहमपि प्रियः, ज्ञानिनस्तु प्रियान्तरशून्यस्याहमेव निरतिशयप्रीतिविषयः । अतः सोऽपि मम निरतिशयप्रीतिविषय इति विशेषः । अन्यथा हि मम कृतज्ञता न स्यात्कृतघ्नता च स्यात् । अत एवात्यर्थमिति विशेषणमुपात्तं प्राक् । यथा हि " यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति"