म० टी०-ये त्वासुरभावरहिताः पुण्यकर्माणो विवेकिनस्ते पुण्यकर्मतारतम्येन
चतुर्विधाः सन्तो मां भजन्ते क्रमेण च कामनाराहित्येन मत्प्रसादान्मायां तरन्तीत्याह----
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ॥ |
ये सुकृतिनः पूर्वजन्मकृतपुण्यसंचया जनाः सफलजन्मानस्त एव नान्ये ते मां भजन्ते सेवन्ते हेऽर्जुन । ते च त्रयः सकामा एकोऽकाम इत्येवं चतुर्विधाः[१] । आर्त आर्त्या शत्रुव्याध्याद्यापदा प्रस्तस्तन्निवृत्तिमिच्छन् । यथा मखमङ्गेन कुपित इन्द्रे वर्षति ब्रजवासी जनः, यथा वा जरासंधकारागारवर्ती राजनिचयः, द्यूतसभायां वस्त्राकर्षणे द्रौपदी च, ग्राहग्रस्तो गजेन्द्रश्च । जिज्ञासुरात्मज्ञानार्थी मुमुक्षुः। यथा मुचकुन्दः, यथा वा मैथिलो जनकः श्रुतदेवश्च, निवृत्ते मौसले यथा चोद्धवः । अर्थार्थी, इह वा परत्र वा यद्भोगोपकरणं तल्लिप्सः । तत्रेह यथा सुग्रीवो विभीषणश्च, यथा चोपमन्युः परत्र यथा ध्रुवः । एते त्रयोऽपि भगवद्भजनेन मायां तरन्ति । तत्र जिज्ञासुर्ज्ञानोत्पत्त्या साक्षादेव मायां तरति आर्तोऽर्थार्थी च जिज्ञासुत्वं प्राप्येति विशेषः । आर्तस्यार्थिनश्च जिज्ञासुत्वसंभवाज्जिज्ञासोश्वाऽऽर्तत्वज्ञानोपकरणार्थित्वसंभवादुभयोर्मध्ये जिज्ञासुरुद्दिष्टः । तदेते त्रयः सकामा व्याख्याताः । निष्कामश्चतुर्थ इदानीमुच्यते-ज्ञानी च, ज्ञानं भगवत्तत्त्वसाक्षात्कारस्तेन नित्ययुक्तो ज्ञानी तीर्णमायो निवृत्तसर्वकामः । चकारो यस्य कस्यापि निष्कामप्रेमभक्तस्य ज्ञानिन्यन्तर्भावार्थः । हे भरतर्षभ त्वमपि जिज्ञासुर्वा ज्ञानी वेति कतमोऽहं भक्त इति मा शङ्किष्ठा इत्यर्थः । तत्र निष्कामभक्तो ज्ञानी यथा सनकादिर्यथा नारदो यथा प्रह्लादो यथा पृथुर्यथा वा शुकः। निष्कामः शुद्धप्रेमभक्तो यथा गोपिकादिर्यथा वाऽक्रूरयुधिष्ठिरादिः । कंसशिशुपालादयस्तु भयाद्वेषाच्च संततभगवच्चिन्तापरा अपि न भक्ता भगवदनुरक्तेरभावात् । भगवदनुरक्तिरूपायास्तु भक्तेः स्वरूपं साधनं भेदास्तथा भक्तानामपि भगवद्भक्तिरसायनेऽस्माभिः सविशेष प्रपञ्चिता इतीहोपरम्य[२]ते॥१६॥
श्री० टी०-सुकृतिनस्तु मां भजन्ति ते च सुकृततारतम्येन चतुर्विधा इत्याह- चतुर्विधा इति । पूर्वजन्मसु ये कृतपुण्या जनास्ते मां भजन्ति ते चतुर्विधाः । आर्तो रोगाद्यभिभूतः । स यदि पूर्व कृतपुण्यस्तर्हि मां भजति अन्यथा क्षुद्रदेवताभजनेन